SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. ॥१७॥ अभिशापशब्देन तन्निमित्तं घर्षणं लक्ष्यते । मद्धर्षणकृतस्य शापस्यान्तो भवेदिति स मया याचितःप्रार्थितः इति हेतोः तेन मयैवं याचितेन इदं वक्ष्य टी.आ.का. माणं वचो भाषितम् ॥५॥ तदेवाह-यदेति ॥६॥ तर्हि कबन्धरूपप्राप्तिः केन हेतुनेत्यत्राह-श्रियेति । मामिति शेषः । एवम् एवंविधम् । रणाजिरे रणाd स०७१ गणे॥७॥ इन्द्रेण योद्धं तव कुतः सामर्थ्य तवाह-अहं हीति । ऋषिदत्तघोराकारप्राप्त्यनन्तरम् उग्रेण तपसा पितामहमतोपयं, स्वकुलशनोरिन्द्रस्य स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति । अभिशापकृतस्येति तेनेदं भाषितं वचः॥५॥ यदा छित्त्वाभुजौ रामस्त्वां दहेद्विजने वने। तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ॥६॥ श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण । इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ॥ ७॥ अहं हि तपसोग्रेण पितामहमतोषयम् । दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोस्टशत् ॥ ८॥ दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति । इत्येवं बुद्धिमास्थाय रणे शकमधर्षयम् ॥ ९॥ तस्य बाहुप्रमुक्तेन वजेण शतपर्वणा । सक्थिनी चैव मूर्धा च शरीरे संप्रवेशितम् ॥१०॥ स मया याच्यमानः सन्नानयद्यमसादनम् । पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ॥ ११ ॥ जयायेत्यर्थः । विभ्रमः अज्ञानम् ॥ ८॥ तदेवाह-दीर्घमिति ॥९॥ शतपर्वणा शतधारेण । सक्थिनी पृष्ठास्थिफलके । शरीरे मध्यदेहे उदरभागे सक्योः प्रवेशनम्, उरोभागे मूर्ध्नः प्रवेशनम् । संप्रवेशितमित्यत्र "नपुंसकमनपुंसकेन-" इति नपुंसकपरिशेषत्वम् एकवद्भावश्च ॥१०॥याच्यमानःमारयेति प्रार्थ्य तेनाहमुक्त इति सम्बन्धः ॥ ४ ॥ स इत्यादि श्लोकद्वयमेकं वाक्यम् । अभिशापकृतस्य अभिशापशब्देन तनिमित्तं धर्षणं लक्ष्यते । तत्कृतस्य शापस्यान्तो भवेदिति स ऋषिर्मया याचितः प्राधितः सन यदा रामो भुजो छिस्वा त्वा दहेत् तदा स्वं रूपं प्राफ्यस इति तेन वचो भाषितमिति द्वितीयेतिकरणस्य सम्बन्ध ॥५॥६॥ श्रियः श्रिया विराजितं वनोः पुत्र विजि । यद्वा दनोर्दनुवंशजस्य श्रियः श्रीनाम्नः पुत्र विद्धि, मामिति शेषः । " दनुर्नाम श्रियः पुत्रः शापाद्राक्ष सतां गतः" इति किष्किन्धाकाण्डे वक्ष्यमाणत्वात् । ननु कबन्धाकारत्वं त्वया कथं प्राप्तमत आह इन्द्रेति ॥७॥ इन्द्रकोपे कारणं वर्णयति-अहं हीति द्वाभ्याम् । विनमो गर्व इत्यर्थः ॥ ८॥ तदेवाह-दीर्घमायुरिति ॥ ९॥ (स्कन्धिनि कण्ठे) । शतपर्वणा शतधारण । सक्थिनी इति नाभ्यधोभागोपलक्षणम् । शरीरे शरीर मध्यस्थे उदरभागे ॥१०॥ एवम्भूतेन मरणं याच्यमानोपि तन्नाकरोत् । किमिति नाकरोत्तत्राह-पितामहेति । तद्वचो दीर्घायुर्दानरूपम् ॥ ११॥ | स०-अभिशापकतस्य मत्कृतप्रधर्षणादिनिमित्तकस्य शापस्यान्तः पारहारो भवेदिति । समयायाचित येफ पदम् । समये शापानन्तरकाले आयाचितो यस्तेनेदं वचो भाषितमित्यन्वयः ॥ ५ ॥ ॥१७॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy