________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥१६९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तयोरेतत् सञ्जल्पितं श्रुत्वा भक्षयितुमारभत्, हस्ताभ्यामाकृष्टवानित्यर्थः ॥ ७ ॥ सुसंहृष्टौ कदलीकाण्डवत् सुखच्छेदनादिति भावः ॥ ८ ॥ दक्षिणः समर्थः । असक्तम् अप्रतिबन्धं यथा भवति तथा । रामस्य दक्षिणपार्श्वे गमनं लक्ष्मणस्य, अत उभयोर्दक्षिणसव्यपार्श्वप्राप्तिः ॥ ९ ॥ गां भूमिम् ॥ १० ॥ निकृत्ताविति । पूर्वमदत्तोत्तरत्वात् पुनः प्रश्नः ॥ ११ ॥ इतीति । क्रियाभेदात् पुनस्तच्छब्दः ॥ १२ ॥ इक्ष्वाकुदायादः दशरथपुत्रः । एतत्सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः । विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥ ७॥ ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ । अच्छिन्दतां सुसंहृष्टौ बाहू तस्यां सदेशतः ॥ ८ ॥ दक्षिणो दक्षिण बाहुमसक्तमसिना ततः । चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥ ९ ॥ स पपात महाबाहुरिछन्नबाहुर्महास्वनः । खं च गां च दिशश्चैव नादयन् जलदो यथा ॥ १० ॥ स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः । दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥११॥ इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः । शशंस राघवं तस्य कबन्धस्य महात्मनः ॥ १२ ॥ अयमिक्ष्वाकु दायादो रामो नाम जनैः श्रुतः । अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥ १३ ॥ [ मात्रा प्रतिहृते राज्ये रामः प्रत्राजितो वनम् । मया सह चरत्येष भार्यया च महद्वनम् ॥] अस्य देवप्रभावस्य वसतो विजने वने। रक्षसा sueता पत्नी यामिच्छन्ताविहागतौ ॥ १४ ॥ त्वं तु को वा किमर्थं वा कबन्धसदृशो वने । आस्येनोरसि दीप्तेन भग्न जङ्घो विवेष्टसे ॥ १५ ॥ एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः । उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ॥ १६ ॥ " दायादौ सुतबान्धवो " इत्यमरः ॥ १३ ॥ इच्छन्तौ अन्वेषमाणावित्यर्थः ॥ १४ ॥ त्वं त्विति । विवेष्टसे लुसीति यावत् ॥ १५ ॥ प्रीतः शापमोक्षकालप्रत्यभिज्ञानात् । तदिन्द्रवचनम् उत्तरसर्गप्रतिपाद्यम् ॥ १६ ॥
एतदिति । तयोरेतज्जल्पनं श्रुत्वेति सम्बन्धः । भक्षयितुमारभत, हस्ताभ्यामाकृष्टवानित्यर्थः ॥ ७ ॥ तत इति । सुसंविग्रौ भीतो, वस्तुतस्तु सुसंविग्नौ कम्पयुक्तौ भुजौ ॥ ८ ॥ दक्षिणः समर्थः । असक्तमप्रतिबन्धं यथा तथा ॥ ९ ॥ गां भुवम् ॥ १० ॥ स इति । को युवामिति पप्रच्छ । पूर्वमप्राप्तोत्तरत्वात्पुनः प्रश्नः ॥ ११ ॥ १२ ॥ इक्ष्वाकुदायादः दशरथपुत्रः ॥ १३॥ यामिच्छन्तौ यामन्वेषयन्तौ ॥ १४॥ विचेष्टसे चेष्टमानस्तिष्ठसि ॥ १५॥ एवमुक्त इति । इन्द्रवचनं श्रीरामेण तव बाहुच्छेदने कृते
For Private And Personal Use Only
टी.आ.की.
स०७०
॥ १६९॥