SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अवयवबहुत्वादहुवचनम् , अन्यथा गतिशब्देन पौनरुक्त्यम् अनन्वयश्व, समनुज्ञातः संस्कृतश्चेति पदवयानर्थक्यं च । ननु मानुषभावं भावयतः । श्रीरामस्य कथं मुक्तिप्रदानं तस्य परत्वासाधारणचिह्नत्वादिति चेत्, “सत्येन लोकान् जयति" इत्युक्तरीत्या स्वार्जितधविशेषेण स्वाधीनसर्वलोक त्याविरोधात् । केचित्तु-मया संस्कृतस्ततोनुज्ञातस्त्वं यज्ञशीलादीनां या गतयः तान् लोकान् गच्छ सर्वान्ते मां ब्रज । “सोश्नुते सर्वान् कामान् । सह । ब्रह्मणा विपश्चिता"इत्युक्तरीत्या मुक्तभोगं प्राप्नुहिन च निर्हेतुकमुक्तिप्रदानेऽतिप्रसङ्गः । स्वकार्यमुद्दिश्य प्राणत्यागस्यैव हेतुत्वात् । अत एव नृसिंह पुराणे-“मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम । तस्मान्मम प्रसादेन विष्णुलोकमवाप्स्यसि" इत्युक्तम् । “कर्मणैव हि संसिद्धिमास्थिता जन कादयः" इति हि कर्मणोपि मुक्तिहेतुत्वमुक्तम् । “ नान्यः पन्थाः" इति श्रुतिः परमात्मनोऽन्यत्र साक्षान्मुक्तिहेतुत्वं निषेधति तस्यैव प्राधान्येन प्रकृतत्वादित्याहुः । यद्वा हे गृधराज महासत्त्व ! मया संस्कृतस्त्वं मयाऽनुज्ञातो भूत्वा अनुत्तमान लोकान् मल्लोकानित्यर्थः । गच्छ आनुषङ्गिकतया यज्ञशीलादीनां या या गतयस्ता अपि गच्छ । गम्यत इति गतिः लोकः। आहितानेः गाईपत्याइवनीयदक्षिणानिनिरतस्य या गतिः " अग्रयो वै त्रयी विद्या" इत्यारभ्य “तस्मादमीन परमं वदन्ति" इत्याहितामित्वस्यापि पृथक् धर्मत्वश्रवणात् । अपरावर्तिनां युद्धादपरावर्तमानानाम् । या गतिः दृष्टान्तार्थमिदमुक्तम् , जटायोस्तादृशत्वेन तत्फलस्येदानीमदेयत्वात् तिरश्चां यज्ञायधिकाराभावेन तत्फलमात्रस्य देयत्वात् । यथाऽपरावर्तिनां गति प्राप्स्यसि तथा यज्ञशीलादीनां लोकानपि ब्रह्मप्राप्तौ वसुत्वादिकमिव प्राप्नुहीत्यर्थः । अस्मिन् कल्पे भूमिप्रदायिनामित्यस्य प्रतीयमानार्थकत्वमेव वज एवं गच्छ । यद्वा मया प्रथम संस्कृतः। “अथ तृतीयेन ज्योतिषा संविशस्व" इत्यादिमन्त्रेणानुज्ञातो मया त्वं यज्ञाधिकारिणां लोकान् गच्छ, ब्रह्ममेघसंस्कारबलेन प्राप्नुहीत्यर्थः । इदं च फलं संस्कारोत्तरक्षण एवानुतिष्ठतीत्युच्यते संस्कृतो बजेति । गृध्रराज महासत्त्व संस्कृतश्च महाव्रतेति पाठे संस्कृतश्च भवेति वार्थः॥२९॥३०॥ तनि०-गम्यत इति गतिर्लोकः । तिरवां कर्माधिकाराभावेऽपि अकतसंस्काराणां परलोकाभावात्त्वं मया संस्कृतः सन् मदनुज्ञयव अनुत्तमान् लोकान् गच्छ, अपरावर्तिनां पुनरावृत्तिरहितानां मुक्तानामित्यर्थः । “न स पुनरावर्तते " इति श्रुतेः । लोकानिति पूजायां बहुवचनम् । यद्वा “विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूनमेषु " इत्यत्र परमव्योमस्थितावान्तरलोकापेक्षया बहुवचननिर्देशवदनापि बहुवचननिर्देशः । यज्ञशीलानां यज्ञशीलादिलोकमार्गेणापरा मुक्तिमाप्तिस्सिद्धेत्यवगम्यते इति । अपरावर्तिनां सङ्कामे इति शेषः । गम्यत इति गतिः लोकः । यज्ञशीलादीनो लोकान क्रमेण प्राप्य मदनुज्ञातस्सन अनुत्तमान येभ्यः परे उत्तमा न सन्ति तान लोकान् ब्रह्मलोकान् क्रममुक्तिदान गच्छ । अनेन सङ्कल्पमात्रात्कर्मानधिकृततिरश्चस्साधनहीनस्यापि तल्लोकदानेन भगवाचामः For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy