________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
ताम्राक्षम् अधःशिरस्कतया पतनजक्षोभात् ॥ १९ ॥ रक्षसां वासे दण्डकारण्ये । बहूनि वर्षाणि निर्भयतया सुखं वसताऽनेन पक्षिणा विशीर्ण देहविशरणं प्राप्तम् । इहैव सुखम् उपित्वा इहेव मृतमनेनेति भावः । विचीर्णमिति पाठे-अत्रैव वसता अनेन अत्रैव सुखं विचीर्णम् अनुभूतमित्यर्थः ॥२०॥ एतदेव विवृ| णोति-अनेकेति । अनेकवार्षिकः बहुवयःप्राप्तः। चिरकालसमुत्थितः चिरकालमभ्युदयं प्राप्तः॥२१॥ पश्येति । अनेन मोक्षप्रदानोचितं तदीयसुकृत
तं गधं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥ १९॥ बहुनि रक्षसां वासे वर्षाणि वसता सुखम् । अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥२०॥ अनेकवार्षिको यस्तु चिरकालसमुत्थितः। सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥२१॥ पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे । सीतामभ्यवपन्नो वै रावणेन बलीयसा ॥ २२ ॥ गृध्रराज्य परित्यज्य पितृपैतामहं महत् । मम हेतोरयं प्राणान मुमोच पतगेश्वरः ॥२३॥ सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥२४॥सीता
हरणजं दुःखं नमे सौम्य तथागतम् । यया विनाशे गृध्रस्य मत्कृते च परन्तप ॥ २५॥ विशेष दर्शयति-सीतामभ्यवपन्नो मे उपकारी सन् इतः ॥ २२॥ गृध्रराज्यं परित्यज्येति प्राप्याभासपरित्याग उक्तः । महदिति स्वकीयेक्ष्वाकुराज्य व्यावृत्तिः, एकमुखत्वात् । ममेत्यादिना उपायानुष्ठानोक्तिः । पतगेश्वरः पितुर्मरणात् इतःपरमस्य पक्षानाश्रित्य सुखं स्थास्यामीति स्थितोऽहम् अयं तातवन्मत्कृते प्राणत्यागं कृतवानिति भावः ॥२३ ॥ सर्वत्रेति सर्वजातिष्वपीत्यर्थः। तिर्यग्योनिगतस्यास्य कथमेताहशी बुद्धिरिति न मन्तव्यमिति भावः ॥२४॥ मत्कृते च मत्कृत एवं यथाऽस्य विनाशःप्राप्तः तथा सीताहरणजं दुःखं नागतं न प्राप्तम् । अत्र विनाशशब्देन तजं दुःखमुच्यते ॥२५॥ कथमिति चेत् । तस्याः सीताया अनुग्रहदशादित्यनुसन्धेयम् । उक्तं च स्कान्दे-" देवी मां प्राह राजेन्द्र यावत्सम्भाषणं मम । भवतस्तावदासन्म प्राणा इत्याह । जानकी ॥" इति ॥ १८॥ १९॥ बहूनीति । अनेन पक्षिणा इह बने विचीर्णमनुभूतं विचरितमिति वा ॥ २० ॥ चिरकालसमुत्थितः चिरकालमभ्युदयं प्राप्तः ॥२१॥ सीतामभ्यवपन्नः सीता मोचयितुमभिमतः सन् रावणेन हत इत्यन्वयः ॥ २२-२४ ॥ सीताहरणजमिति । तथा आगतमिति च्छेदः । मत्कृते च मनिमित्त मेष । गृध्रस्य विनाशो यथा याहशमागतं प्राप्त सीताहरणजं दुःखं तथा तादृशं न भवतीति शेषः । सीताहरणदुःखाद्गृधनाशदुःखमधिकमिति भावः ॥२५॥
११७
For Private And Personal Use Only