SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir 65% अत्र प्रतिध्वनिव्यपदेशेन रामं प्रति सीतादर्शनकथनं व्यज्यते । नादर्शयतेति रावणाद्यं व्यज्यते ॥ ३३ ॥ दाशरथिरिति हेतुगभम् । शिलोच्चयं पर्व तम् । इदमधमकम् ॥ ३४ ॥ ३५ ॥ इमामिति, इयमपि पृष्टा चेन्न वक्ष्यतीति मत्वेति भावः ॥ ३६॥ निष्कान्तं प्रादुर्भूतम् । इतः पूर्वमदर्शनादेव ततो दाशरथी राम उवाच च शिलोच्चयम् ॥ ३४ ॥ मम वाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि। असेव्यःसन्ततं चैव निस्तृणद्रुमपल्लवः ॥ ३५॥ इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण । यदि नाख्याति मे सीतामा चन्द्रनिभाननाम् ॥ ३६॥ एवं स रुषितो रामो दिधक्षन्निव चक्षुषा । ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् ॥ ३७॥ त्रस्ताया रामकाक्षिण्याः प्रधावन्त्या इतस्ततः। राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ ॥३८॥ स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च । भग्नं धनुश्च तूणी च विकीर्ण बहुधा रथम् । सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥३९॥ पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकविन्दवः । भूषणानां हि सौमित्र माल्यानि विवि धानि च ॥४०॥ तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः। आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥४१॥ मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥ ४२ ॥ तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः। बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ ४३॥ मुक्तम्, त्रस्तायाः रावणागीतायाः रामकालिण्याः रामाश्रमं प्रयातुमुयुक्तायाः अत एवं राक्षसनानुवृत्तायाः अनुगतायाः अत एवेतस्ततो धावन्त्याः ददशेत्यनुवर्तते ॥ ३७॥ ३८॥ स समीक्ष्येति सार्घश्लोक एकान्वयः। परिकान्तं परिक्रमम् पदन्यासमिति यावत् ॥३९॥ कनकबिन्दवः स्वर्ण शकलानि ॥४०॥ तप्तेति । ततं स्वर्णम् ॥ ११॥ मन्य इति । इति मन्य इति योज्यम् ॥४२॥ तस्या निमित्तं सुन्दोपसुन्दात परिहार्थमित्यर्थः। विवद । इमां सरितं गोदावरीम् ॥ ३६ ॥ दिधक्षन्निव, सर्व जगदिति शेषः । निष्क्रान्तं प्रवृत्तनिक्षेपम्, महदत्यायतविस्तृतमित्यर्थः । पदं मन्यासस्थानं ददशेत्यन्वयः ॥ ३७-३८ ॥ स इति । राक्षसस्य सीतायाश्च परिक्रान्तं प्रवृत्तं पदं समीक्ष्य भ्रातरं शशंसेत्यन्वयः ॥ ३९ ॥ पश्येति । कनकबिन्दवः कनकस्य भूषणस्य सम्बन्धिनो बिन्दवः शकलानि ॥ ४०॥ ततेति । ततबिन्दुनिकाशेः तपनीयविन्दुतुल्यैः ॥ ४१ ॥ ४२ ॥ तस्या इति । तस्या निमित्र तस्या आहरणार्थ 6. For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy