SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir INI निरीक्षन्ते ॥ १९ ॥ तनि-अत्र रामाशयाभिमगैः सीतागमनदिक्सूचकचेष्टाकरणात सूक्ष्मालङ्कारः। “ सूक्ष्म पराशयाभिशेतरसाकूतचेष्टितम् " इति लक्ष णात् ॥ १८॥ १९॥ येन कारणेन मार्गम् आकाशमार्ग भूमि दक्षिणां भूमि च निरीक्षन्ते स्म पुनश्च मार्ग दक्षिणमार्गम् इच्छन्ति स्म, गन्तुमिति शेषः तन कारणेन मृगाः उपलक्षिताः गृहीतचेष्टार्था आसन् ॥२०॥ उक्तमनुवदन्नाह-तेषामिति । वचनसर्वस्वं तत्सदृशामिङ्गिन्तमित्यर्थः । लक्षयामास मृग येन मार्ग च भूमिं च निरीक्षन्ते स्म ते मृगाः। पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः ॥२०॥ तेषां वचन सर्वस्वं लक्षयामास चेङ्गितम् । उवाच लक्ष्मणो ज्येष्ठं धीमान भ्रातरमार्तवत् ॥२१ ॥ व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः । दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः ॥ २२ ॥ साधु गच्छावहै देव दिशमेतां हि नैर्ऋतिम् । यदि स्यादागमः कश्चिदार्या वा साथ लक्ष्यते ॥ २३ ॥ बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् । लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुन्धराम् ॥ २४ ॥ एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ । वसुन्धरायां पतितं पुष्पमार्गमपश्यताम् ॥ २५॥ चेष्टार्थ वचनोक्तमिव ज्ञातवानित्यर्थः । उवाच चेत्यन्वयः। आर्तवत् आर्तमिति कियाविशेषणम् । क्तवतुप्रत्ययः ॥२१॥ केत्यादिश्लोकदयमेकान्वयम्।। यथा येन प्रकारेण दर्शयन्ति तथा गच्छावहे इत्यन्वयः । आर्षमात्मनेपदम् । नैतिं दक्षिणपश्चिमा राक्षसाधिष्ठितां तस्याश्च दक्षिणेकदेशत्वाद्दक्षिणां| दिशमिति व्यपदेशः॥२२॥ आगमः सीतादर्शनोपायः ॥ २३॥ श्रीमान् सीताधिगमनहेतुदर्शनश्रीमान् ॥२४॥ एवं सावित्यायुक्तरीत्या । पुष्पमार्ग| मन्वपद्यत तस्यां दिशि तेन मार्गेण धावन्तो नराधिपं निरीक्षन्त इत्यन्वयः॥ १८ ॥ १९ ॥ मृगकर्तृकनिरीक्षणेन किमत आह-येनेति । येन कारणेन एते मृगाः मार्ग दक्षिणां दिशम् भर्मि च दक्षिणदिग्भूमि च निरीक्षन्ते पुनश्च मार्ग दक्षिण दिशम् इच्छन्तःगन्तुमिच्छन्तः तेन कारणेन ते मृगाः लक्ष्मणेनोपलक्षिताः गृहीत चेष्टार्था अभवन्निति शेषः । अयञ्चोपलक्षितश्चेष्टार्थः दक्षिणदिशि दूरे भूमौ स्थापिता सीतेति दक्षिणदिग्धावनदक्षिणभूनिरीक्षणशब्दैर्व्यज्यत इति ॥ २०॥ मृगचेष्टा ग्रहणेन किं जातमत आह-तेषामिति । वचनसर्वस्वं वचनस्तारमिव इङ्गितं चेष्टाभिप्राय लक्षयामास लक्ष्मण इति शेषः । यद्वा तेषां वचनसर्वस्वमिङ्गितं स्वयं लक्ष्मणो लक्षयामास ज्ञातवान पश्चाज्येष्ठधातर प्रति तेषामिङ्गितम् उवाचेत्यन्वयः ॥ २१॥२२ ।। नैति दक्षिणा दिशम् । दक्षिणाशागमने आगमः सीताज्ञापक उपायः चिह्नमिति यावत यदि स्यात सम्भवेत अथवा आर्या सीता बा लक्ष्यते ॥ २३॥ २४ ॥ पुष्पमार्ग पुष्पचिहितं मार्गम् पुष्पपरम्परा वा ॥ २५ ॥२६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy