________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
एव समाहितः कृतचित्तसमाधानः। विचेतुम् अन्वेष्टुम् ॥१९॥ वनानि स्वल्पानि महान्ति च पुष्पापचयव्ययाऽत्र सत्रिहिता भवेदिति, गिरीन् विचित्रधातु सङ्घहसक्तात्र भवेदिति, सरितः इंसकारण्डवादिललितपुलिनतया तदवलोकनकुतुकिनी भवेदिति, सरांसि च फुल्लकमलमाण्डिततया तद्विहारपरात्र भवेदिति निखिलेन भावप्रधानो निर्देशः । कात्स्न्येन विचिन्वानी सीता न लब्धेति त्यक्तव्यापारौ न भवतः। तो दशरथात्मजो न दृष्टेति तूणी तिष्ठन्तो
तौ वनानि गिरींश्चैव सरितश्च सरांसि च । निखिलेन विचिन्वानौ सीतां दशरथात्मजौ ॥ २०॥ तस्य शैलस्य सानूनि गुहाश्च शिखराणि च । निखिलेन विचिन्वानौ नैव तामभिजग्मतुः ॥२१॥ विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् । नेह पश्यामि सौमित्रे वैदेही पर्वते शुभाम् ॥२२॥ ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत् । विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम् ॥ २३ ॥ प्राप्स्यसि त्वं महाप्राज्ञ मैथिली जनकात्मजाम्। यथा विष्णु महाबाहुबलिं बध्वा महीमिमाम् ॥२४॥ एवमुक्तस्तु सौहादल्लिक्ष्मणेन स राघवः। उवाच दीनया वाचा दुःखामि हतचेतनः ॥२५॥ वनं सर्व सुविचितं पद्मिन्यः फुल्लपङ्कजाः । गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ॥ २६ ॥ नहि पश्यामि वैदेही प्राणेभ्योपि गरीयसीम् ॥२७॥ एवंस विलपन रामः सीताहरणकर्शितः। दीनशोकसमाविष्टोमुहूर्त विह्वलोऽभवत् ॥२८॥ सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः। निषसादातुरो दीनो निःश्वस्याशीतमायतम् ॥२९॥ न भवतः । मृदुप्रकृतिकत्वात् नैव तामभिजग्मतुरिति वक्ष्यमाणमत्राप्यनुषज्यते ॥२०॥ तस्य शैलस्य प्रस्रवणगिरेः। सानूनि प्रस्थान् । शिखराणि शृङ्गाणि ॥ २१॥ शैलं सर्वतः सर्वत्र शैले । “उभसर्वतसोः" इति द्वितीया । अन्ते इतिकरणम् ॥२२॥ दीप्ततेजसमिति वक्ष्यमाणसतिालाभहेतुलक्ष णोक्तिः ॥ २३ ॥ प्राप्स्यसीति । सीताहर्तारं बुद्धेति शेषः ॥२४॥ दुःखाभिहतचेतनः दुःखोपहतहृदयः इत्यर्थः ॥२५॥ पद्मिन्य इत्यादी सुविचिताः सुविचित इति विभक्तिविपरिणामः कार्यः ॥२६॥ न हीत्यर्धमेकं वाक्यम् ॥ २७ ॥ विह्वलः परवशः ॥ २८॥ अवसन्नाङ्गः कृशाङ्गः । गतबुद्धिः समीचीनं मन्यसे यदि तर्हि विचिनुवः ॥ १८-२० ॥ तस्येति । तस्य शैलस्य प्रस्रवणनानः ॥ २१-२७ ॥ एवमिति । विद्धला परवशः ॥ २८ ॥ सन्तप्तो
For Private And Personal Use Only