________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१४५॥
www.kobatirth.org
पूर्वानुवादरूपम्। क्वचिद्धिष्ठानसादृश्याभावेपि वेगात् शोकवेगादेव उद्धमते सीताप्रतीतिरूपं भ्रमं प्राप्नोति । कचिल्लतादो बलात् सादृश्यवलात् विभ्रमते तत्प्रतीतिभ्रमं लभते । मत्त इवाभाति मत्तवत्परिभ्रमतीत्यर्थः ॥ ३६ ॥ सुगम्यानि वनानि, दुर्गमाणि काननानि । गिरेरुद्भूतानि प्रस्रवणानि गिरिप्रसव णानि । “उत्सः प्रस्रवणं वारिप्रवाहः" इत्यमरः । अपरिसंस्थितः अप्रतिष्ठितः ॥ ३७॥ स रामः तथा कचिदुद्धमत इत्यादिरीत्या विपुलं विशालं महत्।
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च । काननानि च वेगेन भ्रमत्यपरिसंस्थितः ॥ ३७ ॥ तथा स गत्वा विपुलं महद्वनं परीत्य सर्वे त्वथ मैथिलीं प्रति । अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ ३८ ॥ इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षष्टितमः सर्गः ॥ ६० ॥ ess श्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥ १ ॥ अष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ २ ॥
Acharya Shri Kalassagarsuri Gyanmandir
निरन्तरं वनं गत्वा सर्वे वनस्य सर्वप्रदेशं परीत्य पुनः पुनश्चरित्वा अथ मैथिली प्रति मैथिलीलाभं प्रति अनिष्टिताशः अनिष्पन्नाशः सन् पुनरपि प्रियाया मार्गणे परमं परिश्रमं चकार ॥ ३८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥
अथ रामस्य नवमीमवस्थां दर्शयत्येकषष्टितमे दृट्वेत्यादिश्लोकद्वयमेकान्वयम् । शून्यं सीतारहितम् । रहितां सीतयेति शेषः । विध्वस्तानि रावणा क्रान्तत्वादिति भावः । सर्वशः सर्वत्र । तत्र वनप्रदेशे । वैदेहीं संनिरीक्ष्य विचित्य तत्रादृष्ट्वा । पुनरपि रामग्रहणं क्रियाभेदात् । प्राक्रुश्य सीतामुच्चैराहूय उवाच । भुजग्रहणं शोककृतविकारविशेषः । प्रगृह्य उत्क्षिप्य ॥ १ ॥ २ ॥
कचिदधिष्ठानसादृश्याभावेपि शोकवेगादेव सीताप्रतीतिभ्रमः । कचिल्लतासादृश्यप्रतीत्या तत्प्रतीतिभ्रम इति ज्ञेयम् ॥ ३६ ॥ स इति । अपरिसंस्थितः अस्वस्थ इत्यर्थः । पुष्पफलाद्युपेतानि सञ्चारयोग्यानि वनानि विषमाणि तु काननानीति भेदः ॥ ३७ ॥ तथेति । अनिष्ठिताशः अनिष्पन्नमनोरथस्सन्नपि त्रियाया मार्गणे पुनरपि परिश्रममायासं चकार, उद्योगं चकारेत्यर्थः ॥ ३८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्ड व्याख्यायां || षष्टितमः सर्गः ॥ ६० ॥ दृष्ट्वेति । प्राक्रुश्य सीतामुचैराहूय ॥ १ ॥ प्राक्रुश्य हा इति शब्दं कृत्वा । भुजौ प्रगृह्य उत्क्षिप्य ॥ २ ॥
For Private And Personal Use Only
डी.आ.का. स० ६१
॥१४६॥