________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
इत्यादिना । संयति युद्धे स्थिरौ ॥ २७॥ बिलप्रक्षेपनिमित्तमाह-अवध्यतामिति । महासुरस्य वृत्राद्यसुरसदृशस्य। समर्थ्य अयमेवास्य वधोपाय इति । निश्चित्य ॥२८॥ न केवलं स्वनिश्चयः, विराधेन चानन्तरं तथोक्तमित्याह-स्वयमिति । काननचारिणा रामेण । प्रसह्य बलात्कृत्य आत्मनो वधार्थ स्वय मीप्सितः मृत्युः बिलप्रवेशरूपवधोपायः। न मे वधः शस्त्रकृतो भवेदित्युपायान्तरं प्रतिषिद्धय स्वयं निवेदितः उक्तो हीति योजना ॥२९॥रामेण तद्भाषित
अवध्यतां प्रेक्ष्य महासुरस्य तो शितेन शस्त्रेण तदा नरर्षभौ । समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधू प्रचक्रतुः ॥ २८॥ स्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वधार्थमीप्सितः। निवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति ॥ २९ ॥ तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने । बिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ॥३०॥ प्रहृष्टरूपाविव रामलक्ष्मणी विराधमुयाः प्रदुरे निहत्य तौ। ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥३१॥ ततस्तु तो काञ्चनचित्रकार्मुको निहत्य रक्षः परिगृह्य मैथिलीम् । विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥३२॥ दुथार्षे श्रीरामायणे
वाल्मीकीये आदिकाव्य श्रीमदारण्यकाण्डे चतुर्थः सर्गः ॥ॐ ॥ मेव निशम्य तस्य विराधस्य बिलप्रवेशने मतिः कृता । रामेण बलेन बिलं प्रवेश्यमानेन रक्षसा वन विनादितमिति योजना ॥३०॥ प्रष्टरूपौ पुलकित शरीरौ । वस्तुतो हर्षशोकावनयोन स्तः किंतु तन्नटनमात्रमिति इवशब्देन सूचयति ॥ ३१॥ पत्रीसहितस्य रामस्य तद्रहितस्य परतन्त्रस्य लक्ष्मणस्य, चोपमानमाह-चन्द्रदिवाकराविवेति ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुर्थः सर्गः॥४॥
स्य विस्तरः । नदन्तमिति परमेश्वरण श्रीरामेण वधं प्राप्तोऽस्म्यतो धन्योऽहं धन्योऽहमिति हर्षेण नादं कुर्वन्तमित्यर्थः । संयति स्थिरौ आहवे निजितं तं बलेनो क्षिप्य चालयित्वा निक्षिपतुः अपातयताम् ॥ २७ ॥ कस्मादेवं प्रचक्ररित्यत आह-असह्यतामिति । महासुरस्य शस्त्रेणासह्यतामवध्यता प्रेक्ष्य अत्यर्थविशारदो| अत्यन्तकार्यविशारदो बिले वधंसमर्थ्य निश्चित्य प्रचक्रतुः । (असमता प्रेक्ष्य इति पाठः)॥२८॥ अतोऽयमेवास्य वधोपाय इति कथं ज्ञातमित्यत आह-स्वयमिति । स्वयं प्रसह्य अवरुध्य बिले निक्षिप्य । काननचारिणा रामेण वधार्य न मे बधः शस्त्रकृतो भवेदिति आत्मन ईप्सितो मृत्युविराधेन स्वयं निवेदित इति सम्बन्धः।। बिलप्रक्षेपार्थ शस्त्रवध निषिद्धय ईप्सितो पिलप्रक्षेपवधी विराधेन स्वयं निवेदित इत्यर्थः॥२९-३१॥चन्द्रदिवाकराविष उभावपि चन्द्र इव कलासम्पन्नो सूर्य इव | प्रतापसम्पनी ॥३२॥ इति आरण्यक चतुर्थः सर्गः ॥४॥. विराधववसर्गपठनश्रवणफलं स्कान्दे-" यो विराधा नित्यं शृणोति श्रावयेत वा । तस्य पापानि सर्वाणि विनष्टानि न संशयः॥" इति ॥
POOJON
For Private And Personal Use Only