________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
शब्देन आश्रमस्था सीतोच्यते । मञ्चाः क्रोशन्तीतिवत् ॥ २८ ॥ यथेति । लोकगर्हितं कर्म भीरुणा त्वया यथा कृतं तथा तस्कराचरिता मार्गः । तस्करकृत्यतुल्यं त्वत्कृत्यमित्यर्थः । तस्मादेषु मार्गः वीरनिषेवितो न भवतीत्यर्थः ॥ २९ ॥ युद्धयस्वेति । पूर्वसर्गान्ते व्याख्यातोऽयम् ॥ ३० ॥ परेतेति । परेतकाले मृत्युकाल इत्यर्थः । यत्कर्म यादृशं कर्म पुरुषः आत्मविनाशाय प्रतिपद्यते प्राप्नोति । अधर्म्यम् अधर्मादनपेतं तत्कर्म सीताहरण यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् । तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ २९ ॥ युद्धयस्व यदि शूरोसि मुहूर्ते तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ॥ ३० ॥ परेकाले पुरुषो यत्कर्म प्रति पद्यते । विनाशायात्मनोऽधर्म्यं प्रतिपन्नोसि कर्म तत् ॥ ३१ ॥ पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत् । कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ॥ ३२ ॥ एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः । निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥ ३३ ॥ तं गृहीत्वा नखैस्तीक्ष्णेर्विरराद समन्ततः । अधिरूढो गजारोहो यथा स्यादुष्ट वारणम् || ३४ ॥ विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् । केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ ३५ ॥ स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः । अमर्षस्फुरितोष्ठः सन् प्राकम्पत स रावणः ॥ ३६ ॥
रूपं प्रतिपन्नोसि । एतादृशकर्मकरणादवश्यमविलम्बितं मृत्युं प्राप्नोपीत्यर्थः ॥ ३१ ॥ यस्य कर्मणः पापानुबन्धः पापफलसम्बन्धो भवति तत्कर्म लोकाधिपतित्वादिविशिष्टोपि को नु कुर्वीत ॥ ३२ ॥ एवमिति । पृष्ठ इत्यनेन जटायुपमनादृत्य रावणस्य पलायमानत्वं गम्यते ॥ ३३ ॥ तमिति । तं गृहीत्वा बलान्निवर्त्याधिरूढः सन् जटायुः गजारोहो यन्ता दुष्टवारणं पलायितम् अङ्कशोर्निरुध्य यथा विदारयति तथा नखैः विरराद । स्यादिति सम्भा वनायाम् ॥ ३४ ॥ विररादेति । नखपक्षमुखायुधो गृध्रः । अस्य रावणस्य पृष्ठे नखैः सह तुण्डं समर्पयन् व्यापारयन् सन् विरराद व्यदारयदित्यर्थः । केशांश्वोत्पाटयामास ॥ ३५ ॥ स इति । अमर्षेण क्रोधेन। स्फुरितोष्टः चलितोष्ठः । प्राकम्पत प्रहारार्थं प्रदक्षिणं प्राचलदित्यर्थः ॥ ३६ ॥ मत्स्यबन्धनम्। टी-तस्य रामस्य । पुस्त इति शेषः ॥ २७ ॥ २८॥ भीरुणा त्वया लोकगर्हितं कर्म कृतमिति यथा यतः एषः वीरनिषेवितो मार्गो न किन्तु तस्कराचरितः ॥ २९ ॥ ३० ॥ परेतकाले मृत्युकाले । प्रतिपद्यते करोति । प्रतिपन्नोसि प्राप्तवानसि ॥ ३१-३३ ॥ गजारोहो यन्ता दुष्टवारणमधिरूढो यथा स्यात् यादृश व्यापारवान् स्यात् तथा तं व्यदारयत् ॥ ३४ ॥ तुण्डं पृष्ठे समर्पयन तुण्डेन पृष्ठं क्षतवान् ॥ ३५-३८ ॥
For Private And Personal Use Only