________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म. सा हंसमारससंघुष्टा । कर्तरि कः।हंसकारण्डवाकीर्णामिति शुद्धः पाठः ॥ ३२ ॥ देवतानाति । तभ्यो युष्मभ्यमिति शेषः ॥ ३३ ॥ यानीत्यादिश्शाक डी.आ.का. १२०॥ दयमेकान्वयम् । सत्त्वानि जन्तवः । उतेति सम्बोधने समुच्चये वा ह्रियमाणां प्राणेभ्यापि गरीयसी प्रियां माम्, सीता रावणेन हृतेति भर्तुः शंसत रावणानस०४९
भेतव्यं तत्त्वं कथयतेति भावः॥३४॥३५॥ कथने कि प्रयोजनं तबाह-विदित्वेति । भवदुक्तप्रकारेण मां विदित्वा । अमुत्र स्वर्गलोके गतामपि वैव ।
दैवतानि च यान्यस्मिन् वने विविधपादपे। नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥ ३३॥ यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत । सर्वाणि शरणं यामि मृगपक्षिगणानपि ॥३४॥ द्वियमाणां प्रियां भर्तुःप्राणेभ्योपि गरीयसीम् । विवशाऽपहृता सीता रावणेनेति शंसत ॥३५॥ विदित्वा मां महाबाहुरमुत्रापि महाबलः। आनेष्यति पराक्रम्य वैवस्वतइतामपि ॥ ३६ ॥ सा तदा करुणा वाचो विलपन्ती सुदुःखिता। वनस्पतिगतं गृधं ददर्शायत लोचना ॥ ३७॥ सा तमुदीक्ष्य सुश्रोणी रावणस्य वशं गता । समाक्रन्दद्भयपरा दुःखोपहतया गिरा ॥ ३८॥ जटायो पश्य मामार्य ह्रियमाणामनाथवत्। अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥३९॥ नैष वारयितुं शक्यस्तव क्रूरो निशाचरः। सत्त्ववान जितकाशी च सायुधश्चैव दुर्मतिः ॥४०॥ रामाय तु यथातत्त्वं जटायो हरणं मम ।
लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः॥४१॥ इत्यार्षे श्रीरामायणे. श्रीमदारण्यकाण्डे एकोनपञ्चाशः सर्गः ॥४९ । स्वतहतामपि मां पराक्रम्यानेष्यति । तस्मादवश्यं शंसतेति भावः ॥३६॥ करुणाः दीनाः । तात्कालिकहर्ष सूचयति आयतलोचनेति ॥ ३७॥ तमिति । समानन्दत "ऋदि आह्वाने रोदने च" । दुःखोपहतया दुःखगद्दया ॥३८ ॥ आयेति श्वशुरवत्सम्बोधनम् । करुण यथा तथा ह्रियमाणाम् ॥३९॥ नेति । अशक्यत्वे हेतुः सत्त्ववानित्यादिकम् । जितकाशी जयावहः । दुर्मतिः कूटयोधी ॥ ४० ॥ तर्हि मया किं कर्तव्यं तबाह-रामाय।
त्विति । तत् अस्य दुर्जयत्वादेव हेतोः॥४१॥ इति श्रीगोविन्द श्रीरामा० रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥४९॥ २०॥ N३३-४१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायाम् एकोनपञ्चाशः सर्गः ॥४९॥
दी-अमुत्रापि परलोकेपि ॥ २६ ॥ नैप वारयितुं शक्यस्तुभ्यम् इति पाठे-मुन्य वथा । जितकाशी जितेन जयेन काशत इति जितकाशी ॥४०॥
For Private And Personal Use Only