________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
चा.रा.म.
अधिगन्तुं प्राप्नुम् ॥४०॥११॥ अवसज्येति सार्घश्लोक एकान्वयः । अवसज्य बा ॥४२॥ कल्याणवृत्तां शुभाचाराम् ॥४३॥ अयोमुखानाम् अयोमया टी.आ.कां. ग्राणाम् । शूलानामग्रेशूलाग्रपङ्गिषु सञ्चरितुमिच्छसीत्यर्थः॥४४॥उक्तं रामोत्कृष्टत्वं रावणनिकृष्टत्वं च सदृष्टान्तमाह-यदन्तरमित्यादिना। सिंहमृगालयो। “सृगालो वञ्चकः कोष्टा" इत्यमरः। यत् अन्तरं भेदः तारतम्यमिति यावत् । “अन्तरमवकाशावधिपरिधानान्तर्षिभेदतादयें। छिद्रात्मीयविना
अवसज्य शिलां कण्ठे समुद्र तर्तुमिच्छसि । सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥४१॥यो रामस्य प्रियां भार्या प्रवर्षयितुमिच्छसि ॥ ४२ ॥ अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि । कल्याणवृत्तां रामस्य यो भार्या हर्तुमिच्छसि ॥४३॥ अयोमुखानां शूलानामग्रे चरितुमिच्छसि । रामस्य सदृशी भार्या योऽधिगन्तु त्वमिच्छसि ॥४४॥ यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दिनिकासमुद्रयोः । सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य च ॥४५॥ यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः। यदन्तरं हस्ति बिडालयोर्वने तदन्तरं दाशरथेस्तवैव च ॥४६॥ यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि । यदन्तरं
सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥४७॥ बहिरवसरमध्येऽन्तरात्मनि च ॥” इत्यमरः । वने जले विषये । “जीवनं भुवनं वनम्” इत्यमरः । स्यन्दिनिका स्यन्दितुम् प्रसवितुं शीलमस्या अस्तीति । स्यन्दिनिका । ताच्छील्ये णिनिः । अल्पार्थे कप्रत्ययः “केऽणः" इति ह्रस्वः। क्षुद्रनदी स्यन्दिनिका । सुराज्यं श्रेष्ठमद्यम् । सौवीरकं काधिकम् ।। “ आरनालकसौवीरकुल्माषाभिषुतानि च । अवन्तीसोमधान्याम्लकुचलानि च काञिकम् ॥” इत्यमरः ॥ १५॥ काञ्चनसीसलोहयोरित्यत्र लोह शब्दः प्रत्येकमभिसम्बध्यते, काञ्चनस्यापि नवलोहेषु परिगणनात् । चन्दनवारि चन्दनपतः। विडालो मार्जारः ॥ ४६॥ मद्गुः जलवायसः। सारसो स्यन्दिनिका क्षुद्रनदी । सुराज्य सुराणामम्यम् श्रेष्ठममृतमित्यर्थः । सौवीरकम् आरनालम् ॥ ४५ ॥ ४६ ॥ मद्यः जलकाकः । सारसो हंसः ॥४७॥ • फलश्रुतिः । स्काग्दे-" यदन्तरेत्यादिवाक्यश्रवणादधनाशनम् । " इति ।
॥११५॥
For Private And Personal Use Only