SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बा.रा.भू. टी.आ.का. बह्वीनामिति । उत्तमस्त्रीणामिति निर्धारणे षष्ठी ॥२७॥ लङ्केति । समुद्रमध्ये वर्तमाने नगमूर्धनि गिरिशृङ्गप्रदेशे । निविष्टा कृतनिवेशा । सागरेण सगर ॥ ११४ ॥ निर्मितेन समुद्रेण परिक्षिप्ता परिवृता पुरी मम अस्तीति शेषः ॥ २८॥ तत्रेति । वनेषु उद्यानेषु । अरण्यवासस्येति चतुर्थ्यर्थे षष्ठी ॥ २९ ॥ पञ्च सहस्राणि ७ स० ४७ | दास्यस्त्वां परिचरिष्यन्ति ॥ ३० ॥ रावणेनेति । तुशब्देन पूर्वोक्तोपचारवचनविलक्षणवचना ||३१|| महागिरिमिति । महेन्द्रसदृशं पतिं पतित्वे स्वामित्वे बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः । सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ २७ ॥ लङ्का नाम समुद्रस्य मध्ये मम महापुरी । सागरेण परिक्षिप्ता निविष्टा नगमूर्द्धनि ॥ २८ ॥ तत्र सीते मया सार्धं वनेषु विहरिष्यसि । न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥ २९ ॥ पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः । सीते परिचरि व्यन्ति भार्या भवसि मे यदि ॥ ३० ॥ रावणेनैवमुक्ता तु कुपिता जनकात्मजा । प्रत्युवाचानवद्याङ्गी तमनादृत्यू राक्षसम् ॥ ३१ ॥ महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् । महोदधिमिवाक्षोभ्यमहं राममनुत्रता ॥ ३२ ॥ सर्व लक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् । सत्यसन्धं महाभागमहं राममनुव्रता ॥ ३३ ॥ | महेन्द्रतुल्यमित्यर्थः । अनुत्रता अनुकूलं व्रतं यस्याः सा राममुद्दिश्यानुव्रतां ॥ ३२ ॥ सर्वेति । न्यग्रोधपरिमण्डलं वटवृक्षमिव महापरिणाहम् । यद्वा न्यग्रोधवत् बहुशाखबन्धुस्तोमं तद्वत् सर्वसमाश्रयणीयमिति वा । यद्वा "कूपोदकं वटच्छाया युवतीनां स्तनद्वयम् । शीतकाले भवत्युष्णमुष्णकाले च शीतलम् ॥” च रतिमिच्छां नाधिगच्छामि ममेष्टदेवतायास्तव दर्शनेनानन्दपूर्णोऽहं सर्वतो निर्वृतोऽस्मीति भावः ॥ २६ ॥ इतस्तत आहतानामुत्तमस्त्रीणां सर्वासां मम मे या अग्रमहिषी तस्याश्च मम भव, ईश्वरीति शेषः ॥ २७ ॥ लङ्केति श्लोकद्वयमेकं वाक्यम् । तत्र लङ्कायां बनेषु विहरिष्यसि यदि तदा अस्थारण्यवासं न स्पृह यिष्यसि ॥ २८ ॥ २९ ॥ किञ्च पञ्चसहस्राणि दास्यः मे मया सार्धं परिचरिष्यन्ति यदि, तवेति शेषः । तदा भार्या भया कान्या आर्या पूज्या भवसीति सम्बन्धः ॥ ३० ॥ रावणेन, पुत्रसदृशेनेति शेषः । एवं प्रार्थनारूपेणोक्तापि अतितामसभक्तो रावणः श्रीरामवियोगं सम्पादयतीति कुपिता जनकात्मजा प्रत्यु वाचेति सम्बन्धः ॥ ३१ ॥ महागिरिर्मेरुः | अकम्प्यममपृष्यम् । राममनुव्रता राममुद्दिश्यानुसरणमेव व्रतं यस्यास्सा तथोक्ता ॥ ३२ ॥ न्यग्रोधपरिमण्डलं न्यग्रोध मिव परिणाहवन्तम् । यद्वा बहुशाखं न्यग्रोधवत् बहुबन्धुजनस्तोमम् ॥ ३३ ॥ For Private And Personal Use Only ॥ ११४॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy