SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir टी.आ.को पारा.. कान्त्यषिष्ठानदेवता । रतिः मन्मयस्त्री। स्वैरचारिणी स्वतन्त्रा ॥१६॥ समाः वैषम्यरहिताः। शिखराणि अग्राणि प्रशस्तानि सन्तीति शिखरिणः। प्रशंसायामिनिः । कुन्दकुड्मलवत् प्रशस्तामा इत्यर्थः । बिग्घाः मसणाः । रक्तान्ते रक्तरेखायुक्तान्ते । जपनं कदिपुरोभागः । " पश्चानितम्बः साखीकटया कीबे तु जघनं पुरः" इत्यमरः ॥ १७॥१८॥ एताविति । उपचितो उनतो। वृत्तौ वर्तुलो । संहतो अन्योन्यसंशिष्टो । सम्यक प्रकृष्टं । समाः शिखरिणः स्निग्धाः पाण्डरा दशनास्तव । विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥ १७॥ विशालं जघनं पीनमूरू करिकरोपमौ ॥ १८॥ एतावुपचितौ वृत्तौ संहतौ संप्रवल्गितौ । पीनोनतमुखौ कान्तौ स्निग्धौ तालफलोपमौ । मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ॥ १९॥ चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे कान्ते नदी कूलमिवाम्भसा ॥ २०॥ करान्तमितमध्यासि सुकेशी संहतस्तनी ॥२१॥ नैव देवी न गन्धर्वी न यक्षी नच किन्नरी। नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥२२॥ वल्गितं चलनं ययोस्तो संप्रवल्गितौ गुरुत्वोन्नत्याभ्यां किञ्चिञ्चलन्ताविव स्थितावित्यर्थः। पीनोन्नतमुखौ क्वचित् स्तनयोः पीनत्वेप्यो औन्नत्यं पीनत्त्वं रच न स्तः तथा न भवत इमो किन्तु पीनम् उन्नतं च मुखं ययोस्तो। कान्तो काम्बमानौ । मणिप्रवेकाभरणी मणिप्रवेकाः मणिश्रेष्ठाः । “प्रवेकानुत्तमो त्तमौ" इत्यमरः । ते मालात्मकाः आभरणं ययोस्तौ । रुचिरौ शोभमानौ । सूक्ष्मतरकौशेयोत्तरीयचलनवशेन हठाद दृष्टः प्रकारो दुरात्मना वर्ण्यते ॥ १९॥ चारुस्मित इति । चारखो दन्ता यस्याः सा चारुदती । आषों दन्तस्य दवादेशः छन्दोवद्भावेन "छन्दसि च" इति सूत्रेण समासान्तो दन्तस्य दवादेशोवा “उगितश्च" इति डीप । समा इत्यादिना पूर्वोक्तस्य सामान्योक्तिरियं चारुस्मितत्वनिहाय विलासोऽम्भस्थानीयः अतोन न्यूनोपमा॥२०॥ करान्तेति । करान्तेन करतलाङ्गुष्ठप्रदेशिनीचक्रमानेन मितं परिच्छिन्नं मध्यं यस्याः सा। संहतस्तनीति पूर्व संहतावित्युक्तकल्पपि पुनरुक्तिर्दुर्लभलक्षण । त्वविस्मयेन ॥२१॥ एवंरूपा देवी देवस्त्री देवलोके न दृष्टा, एवमुत्तरत्रापि योज्यम् । नारी मनुष्यत्री ॥२२॥ समा एकाकाराः शिखरिणः शिखराणि अप्राणि प्रशस्तानि सन्तीति तथा ॥ १७-१९॥ टी० मणिप्रवेकः मणिश्रेष्ठः ॥ १९॥ नदी की अम्भसा कूलं स्वकूलमिव मनो हरसीत्यन्वयः ॥ २०॥ करान्तमितमध्या मुष्टिप्राह्ममध्या ॥२१॥ २२॥ स-मनो हरसि मे रामे इति पाठः । हे रामे हे सीते ! नदीति कर्तृनिर्देशः । नदी स्वाम्मोलक्षणकरणेन कूल यथा तथेत्यर्थः । तैश्वारुस्मितादिमिर्मनो हरसीत्यर्थः । अरामे इति च्छेदः । रामरहिते देशे वा॥२०॥ ॥११॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy