________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मृगः आश्चर्यभूतम् अस्माकं विस्मयावहं सत्त्वं भवति इदानीमिति शेषः । समाप्तवनवासानाम् अत एव पुनः राज्यस्थानां च नः विस्मयं जनयिष्यति किंच अन्तःपुरविभूषार्थोपि भविष्यति ॥ १५ ॥ १६ ॥ आर्यपुत्रस्य तव श्वश्रूणां मम श्वश्रूणां चेति योजना । मृगरूपं प्रशस्तमृगः । प्रशंसायां रूपप् प्रत्ययः । मृगस्य रूपं वा ॥ १७ ॥ जीवतः अग्रहणेपि प्रयोजनमाह-जीवनिति । अजिनं चर्म । रुचिरं प्रियम् ॥ १८ ॥ प्रियत्वमेव विवृणोति-निहतस्येति । जाम्बूनदमयत्वचि स्वर्णसदृशत्वचि । शष्पवृस्यां बालतृणैः कृतायां वृस्याम् । मध्यमपदलोपसमासः । “तिनामासनं १
समाप्तवनवासाना राज्यस्थानां च नः पुनः। अन्तःपुरविभूषार्थों मृग एष भविष्यति ॥ १६॥ भरतस्यार्य पुत्रस्य श्वश्रूणां मम च प्रभो । मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ १७ ॥ जीवन यदि तेऽभ्येति ग्रहणं मृगसत्तमः। अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥१८॥ निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि । शष्प बृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ १९॥ कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् । वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥२०॥ तेन काञ्चनरोम्णा तु मणिप्रवरङ्गिणा । तामणादित्यवर्णेन नक्षत्रपथवर्चसा । बभूव राघवस्यापि मनो विस्मयमागतम् ॥२१॥ सी" इत्यमरः । तस्यां विनीतायाम् आस्तृतायाम् । उक्तरूपत्वचि उपासितुं स्थातुम् इच्छामि, त्वया सहेति शेषः ॥ १९॥ अथ सविनयमाह-काम वत्तमिति । रौद्रं चोरम् इदं कामवृत्तं भर्तृप्रेरणरूपस्वेच्छाव्यापारः । स्त्रीणाम् असदृशम् अयुक्तं कैकेयीवत्, तथाप्यस्य सत्त्वस्य तु वपुषा । विलक्षणदेहेन मम विस्मयो जनितः ममात्यन्तं कुतूहलं वर्तते, आनयेति वक्तुमप्ययुक्तम् अतः तवापि कुतूहलमस्ति चेत्तथा क्रियतामिति भावः । अनेन पूर्वमानयेति प्रमादादुक्तस्य क्षमापणं कृतम् ॥२०॥ न केवलं स्त्रीपारवश्येन कृतवान् किंतु स्वविस्मयेनापीत्याह-तेनेत्यादिना । मणिप्रवरो नील आश्चर्यसत्वं भवति । अतस्सर्वेषां विस्मयं जनयिष्यतीति सम्बन्धः ।। १५-१८ ॥ शप्पवृस्या बालतणैः परिकल्पिततापसासने । विनीतायां प्रसारिताया जाम्बूनद मयत्वचि उपासितुं त्वत्समीपे स्थातुमिच्छामीति योजना ॥१९॥ इदं कामवृत्तं कैकेय्यादिवत्स्वप्रयोजनाय भवियोजनरूपमिदं कृत्यं रौद्रं क्रूर बीणामसहशमिति यद्यपि मतं ज्ञातं तथाप्यस्य वपुषा मम विस्मयो जात इत्यभिप्रायेण वाक्यं परिसमापितवती ॥ २०॥ काश्चनरूपेण काचनमृगेण । “रूप मृगेपि विज्ञेयम्"MI
For Private And Personal Use Only