SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥१००॥ 1XGI www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनर्गत्वेति पुनर्निवृत्तश्चेत्यन्वयः । निवृत्य गमनमुक्त्वा गत्वा निवर्तनमाह - गत्वेति ॥ २५ ॥ एवं गमनागमनाभ्यां विक्रीडन् सन् पुनः कचि तूष्णीं निषीदति ॥ २६ ॥ विनिप्पतन् सञ्चरन् ॥ २७ ॥ समात्रायेति प्राणेन विशेषं जानन्ति तिर्यञ्च इति प्रसिद्धिः ॥ २८ ॥ भावस्य क्रौर्यस्य । प्रच्छादनार्थ मृगवधे रतोपि मृगान्न भक्षयति किन्तु संस्पृशन्नास्ते ॥ २९ ॥ ततः आश्रमादभ्यवर्ततेत्यन्वयः ॥ ३० ॥ मंदिरम् आनन्दजनकम् ईक्षणं पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः । गत्वा मुहूर्त त्वरया पुनः प्रतिनिवर्तते ॥ २५ ॥ विक्रीडंश्च क्वचिदभूमौ पुनरेव निषीदति । आश्रमद्वारमागम्य मृगयूथानि गच्छति ॥ २६ ॥ मृगयूथैरनुगतः पुनरेव निवर्तते । सीतादर्शन माकांक्षन राक्षसो मृगतां गतः । परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ॥ २७ ॥ समुद्रीक्ष्य च तं सर्वे मृगा ह्यन्ये वनेचराः । उपागम्य समानाय विद्रवन्ति दिशो दश ॥ २८॥ राक्षसः सोपि तान्वन्यान् मृगान् मृगवधे रतः । प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ॥ २९ ॥ तस्मिन्नेव ततः काले वैदेही शुभलोचना । कुसुमापचयव्यग्रा पादपानभ्यवर्तत् ॥ ३० ॥ कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा । कुसुमान्यपचिन्वन्ती चचार रुचिरानना ॥ ३१ ॥ अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम् । मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥ ३२ ॥ सा तं रुचिरदन्तोष्ठी रूप्यधातुतनूरुहम् । विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ॥ ३३ ॥ यस्याः सा मदिरेक्षणा । अनेन रुचिराननेत्यनेन च वक्ष्यमाणकार्योपयोग्युलासो द्योत्यते ॥ ३१ ॥ अरण्यवासस्थानर्हेत्यनेन सन्निहितव्रत समाप्ति कालत्व कथनान्मृगग्रहण त्वरातिशयो द्योत्यते । रत्नमयं श्रेष्ठभूतम् । स्वार्थे मयट् । " रत्नं स्वजाती श्रेष्ठेपि " इत्यमरः । मुक्तामणिशब्देन तत्तुल्यबिन्दुमत्त्व मुक्तम् ||३२|| रुचिरदन्तोष्ठीत्यनेन कुतुकानुभाव उक्तः । रूप्यं रजतम् धातवः ताम्रगैरिकाद्यः तत्तुल्यतनूरुहम् । "तनूरुहं रोम लोम" इत्यमरः ॥ ३३ ॥ सीतासन्दर्शनं सीतादर्शनयोग्यस्थानं समाश्रयत् ॥१३-२६ ॥ विनिष्यतन उत्प्लुत्य धावन् ॥ २७ ॥ टीका-समुद्रीति तिर्थग्जन्तूनामाप्राणेन सजातीयविजातीयज्ञान सम्भवतीति प्रसिद्धिः ॥ २८ ॥ भावस्य राक्षसत्वस्य । अपचयः लवनम् ॥ २९-३२ ॥ रूप्यधातुतनूरुहं रूप्यं रजतं धातवः ताम्रगैरिकादयः तैस्सदृशतनूरुहम् ॥ ३३ ॥ ३४ ॥ For Private And Personal Use Only टी.आ.को. स ४२ । ॥१००॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy