________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Sri Kalassagarsun Gyarmandir
N
तव त्रयाणां लोकानामपि प्राणान् हन्तुं पर्याप्तः समर्थ इति योजना ॥२२॥ त्वयि आत्मश्चापिनि विषये । कामं यद्यपि बहु पारुष्यं वक्तव्यमस्ति तथापि तन्न वक्ष्यामि । कुतः ? हि यस्मात् सविता अस्तं गच्छेत् । ततः अस्तमयेन युद्धविनो भवेत् । यद्यपि स्वस्य रात्रिर्बलायैव तथापि राज्यशक्तमनुष्य वधे स्वस्य न कापि कीर्तिरिति खरहृदयम् ॥२३॥ ते त्वया । एष इत्यव्यवधानोक्तिः । तेषां तद्वन्धूनामित्यर्थः । यद्वा तद्वधप्रतिकियां करिष्यामी
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् । अस्तं गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत् ॥२३॥ चतुर्दश सहस्राणि राक्षसानां हतानि ते । त्वद्विनाशात् करोम्येष तेषामथुप्रमार्जनम् ॥ २४ ॥ [ ततो रुधिरधाराभिस्त्व च्छरीरविमर्दनात् । करिष्यामि बलिं भूमौ त्वां हत्वा सर्वरक्षसाम्॥] इत्युक्त्वा परमऋद्धस्तां गदा परमाङ्गदः । खर श्चिक्षेप रामाय प्रदीप्तामशनिं यथा॥२५॥ खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा। भस्म वृक्षांश्च गुल्मांश्च कृत्वागात्त
त्समीपतः॥२६॥ तामापतन्तीज्वलितां मृत्युपाशोपमा गदाम् । अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥२७॥ त्यत्र हृदयम् ॥ २४ ॥ परमानन्दः गदापहारसामर्थ्यविरुदयुक्त इत्यर्थः। अशनि वज्रम् ॥२५॥ भस्म कृत्वा तत्समीपमगादित्यन्वयः। समीपत इति पश्यसि ननु । गदाधरमित्यनेन गदाया अमोघत्वं सूच्यते । धराधरमिति पर्वतविशेषणम् ॥ २१ ॥ २२ ॥ यद्यपि त्वद्विषये इति शेषः । बहुवक्तव्यं परुषवचनमस्ति तथाप्यहं त्वया साकं न वक्ष्यामीति शेषः । भवतो लघुतरत्वादिति भावः । हेत्वन्तरमाह अस्तमिति ॥ २३ ॥ ते त्वया हतानि तेषामश्चप्रमार्जनमिति । तेषां हत बान्धवराक्षसानामित्यर्थः । प्राकृतानित्यादीनां वास्तवार्थस्तु-आत्मानं प्रशंससि इह महात्मनस्तवेतन युक्तमिति भावः । विक्रान्ता इति । ये नरर्षभाः त्वाश महात्मानः ते पवं न कथयन्ति । केचित्स्वतेजसा गर्विताः कथयन्ति । अतस्तवोचितं न भवतीति भावः । प्राकृता इति । क्षत्रियांसना यथा निरर्थकं विकत्यन्ते तथा त्वं विकत्यसे तब न युक्तमिति भावः । कुलमिति । समरे शत्रुपक्षस्य मृत्युकाले सम्प्राप्ते सति स्तवं को वाभिधास्यति, न कोपीत्यर्थः । सर्वधेति । आत्मान मेवं भाषयसि यदि तदा तव लघुत्वमेव प्रदर्शितं भविष्यति । अतस्तवैतन्न युक्तमिति भावः । नन्विति हेराम ! गदाधरं मां पश्यसि ननु, एतादृशगदापाणिरह - पाशहस्तोऽन्तक इव त्रयाणामपि लोकानां प्राणान् हन्तुं पर्याप्तः यद्यपि तथापि रणे तव न पर्याप्त इति शेषः । चतुर्दशेति । राक्षसाना चतुर्दशसहस्राणि ते त्वया हतानि तथा त्वन्नाशात । त्वत् त्वत्तः नाशात मन्त्राशात त्वत्तो मन्त्राशे सतीत्यर्थः । तेषां तदारादीनां अश्रुमार्जनं करोमीति सम्बन्धः । त्वदिति । घातयितुर्मम मरणे तदारुणा दुःखनिवृत्तिर्भवतीति भावः ॥ २४ ॥ इत्युक्त्वा अनुप्रमार्जनं करोमीत्युक्तेत्यर्थः । रामाधाकांक्षी सन्निति शेषः । परमकुद्धः खरः गदा रामाय चिक्षेपेति सम्बन्धः । परमानन्दः प्रशस्तकेयूरः ॥ २५ ॥ अत एव भस्म कृत्वा तत्समीपत्तः रामसमीपमगात् ॥ २६-२८॥
For Private And Personal Use Only