________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥ ६७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेनाध्यक्षाने वाह- इयंनगामीत्यादिना ॥ २६-२८ ॥ तत इति । वज्रं वज्रमणिः । तेजस्वी राम इति शेषः ॥ २९ ॥ सधूमा इत्यनेन दहनोन्मुख त्वं व्यज्यत इत्यङ्गारावस्थाव्यावृत्तिः। वज्रा इवेति "वज्रमस्त्रियाम्" इत्युभयलिङ्गो वज्रशब्दः ॥ ३० ॥ रक्षसामिति । कर्णिना कर्णाकार शरीरेण ॥ ३१ ॥ छिन्नं खण्डितम् । शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः । एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ॥ २५ ॥ श्येनगामी पृथुग्रीवो यज्ञशत्रुविहङ्गमः । दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ २६ ॥ मेघमाली महामाली सर्पास्यो रुधिराशनः । द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः ॥२७॥ राममेवाभ्यवर्तन्त विसृजन्तः शरोत्तमान् ॥ २८ ॥ ततः पावक सङ्काशैर्हेमवज्ञविभूषितैः । जवान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ २९ ॥ ते रुक्मपुङ्गा विशिखाः सधूमा इव पावकाः । निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥ ३० ॥ रक्षसां तु शतं रामः शतेनैकेन कर्णिना । सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ ३१ ॥ भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः । निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥३२॥ तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः । आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥३३॥ क्षणेन तु महाघोरं वनं निहतराक्षसम् । बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥ ३४ ॥ चतुर्दशसहस्राणि रक्षसां भीम कर्मणाम् । हतान्येकेन रामेण मानुषेण पदातिना ॥ ३५ ॥ तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः । राक्षसूस्त्रिशिरा श्चैव रामश्च रिपुसूदनः ॥ ३६ ॥ शेषा हता महासत्त्वा राक्षसा रणमूर्धनि । घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ॥ ३७॥ भिन्नं विदारितम् । आदिग्धाः आलिप्ताः ॥ ३२ ॥ तैर्मुक्तेति रणाग्रपतितत्वातिशयात्कुशसाम्योक्तिः ॥ ३३ ॥ निरयप्रख्यं नरकतुल्यम् । मांसशोणितैः कृतः कर्दुमः पङ्को यम्य तत्तथा ॥ ३४ ॥ मानुषेण ऋजुना । पदातिना वाहनरहितेनेत्यद्भुतोक्तिः ॥ ३५ ॥ सैन्यस्य युद्धप्रवृत्तस्य अतो रामस्यापि तत्रान्तर्भावः । खरादित्रयं शेषः अवशिष्टांश इत्यर्थः । शेषाः सर्वे राक्षसा हता इत्यन्वयः । महासत्त्वा इत्यादिविशेषणैर्महारथा एव हताः, क्षुद्राः केचन तेजस्वी राम इत्यनुज्यते ।। २९-३८ ।।
For Private And Personal Use Only
टी. आ. काँ
स० २६
॥ ६७ ॥