________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भाव आर्षः॥२६॥२७॥ लोकानामभिसङ्गता इति ये लोकानाम् अभिसङ्गताः अनुकूलाः तेभ्योपि स्वस्त्यस्त्वित्यर्थः । जयतां जयतु ।आर्षे आत्मने। | पदम् । सङ्खये युद्धे । चक्रहस्तो विष्णुः। वाहिनी सेनाम् । गतायुषां गन्तुमुद्युक्तायुषाम् । एतत् स्वस्तीत्यादिवाक्यम् । अन्यच्च राघवजयविषयक
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः।जयतांराघवःसङ्ख्ये पौलस्त्यान रजनीचरान ॥२८॥ चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान् । एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥२९॥ जातकौतूहलास्तत्र विमानस्थाश्च देवताः। ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥३०॥ रथेन तु खरो वेगादुग्रसैन्यो विनिस्मृतः । तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्मृताः ॥३१॥ श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः । दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ ३२॥ मेघमाली महामाली सोस्यो रुधिराशनः । द्वादशैते महावीर्याः प्रतस्थुरभितः । खरम् ॥ ३३ ॥ महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा। चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ॥३४॥ सा भीमवेगा समरामिकामा महाबला राक्षसवीरसेना। तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यो
॥३५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोविंशः सर्गः ॥२३॥ वाक्यं वाणाः परमर्षयः विमानस्था देवताश्च जातकौतूहलाः सन्तः राक्षसानां वाहिनी ददृशुरिति सम्बन्धः ॥ २८-३० ॥ रथेनेति । वेगात स्थवेगात् । विनिस्मृतः गतः॥३३॥ श्येनेत्यादि । श्येनगाम्यादयो द्वादश खरामात्याः॥ ३२-३४ ॥सेति । समराभिकामा युद्धेप्सुः । ग्रहाणामङ्गारका दीनाम् ॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयोविंशः सर्गः ॥२३॥ अवपाशिता बद्धा ॥ २५-३१ ॥ श्येनगाम्यादयो द्वादश खरामात्याः ॥ ३२-३५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्ड व्याख्यायां त्रयोविंशः सर्गः॥ २३ ॥
१००
For Private And Personal Use Only