SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चित्ततया पुनः प्रशशंस ॥ ६ ॥ अमुमर्थ विशष्यति - तथेति ॥ ७ ॥ चतुर्दशेत्यादिश्लोकत्रयमेकं वाक्यम् । चतुर्दश सहस्राणि सन्तीति शेषः । घोराणां घोररूपाणाम् । लोकहिंसाविहाराणां जनवधैकलीलानाम् । महास्यानां विकृतमुखानामिति यावत् । उदीर्णानां गर्वितानाम् । सर्वोद्योगं सर्वप्रकारै। तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीद्दूषणं नाम खरः सेनापतिं तदा ॥ ७ ॥ चतुर्दश सहस्राणि मम चित्ता नुवर्तिनाम् । रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ ८ ॥ नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् । लोक हिंसाविहाराणां बलिनामुग्रतेजसाम् ॥ ९ ॥ तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ १० ॥ उपस्थापय में क्षिप्रं रथं सौम्य धनूंषि च । शराश्चित्रांश्च खङ्गांश्च शक्तीश्च विविधाः शिताः ॥ ११ ॥ अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् । वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ॥ १२॥ इति तस्य ब्रुवाणस्य सूर्यवर्ण महारथम् । सदधैः शबलैर्युक्तमाचचक्षेऽथ दूषणः ॥ १३ ॥ तं मेरुशिखराकारं तप्त काञ्चनभूषणम्। हेमचक्रमसम्बाधं वैडूर्यमयकूबरम् ॥ १४ ॥ मत्स्यैः पुष्पैर्दुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः । मङ्गलैः पक्षिसङ्घैश्व ताराभिरभिसंवृतम् ॥ १५ ॥ Acharya Shri Kailassagarsuri Gyanmandir रुद्योगम्, सर्वायुधवाहनादिभिरुद्योगमित्यर्थः ॥ ८-१० ॥ शक्तीः आयुधविशेषान् ॥ ११ ॥ पौलस्त्यानां पुलस्त्यवंश्यानामये रणकोविदोऽहं गन्तु मिच्छामीत्यन्वयः । रामस्य रणज्ञत्वात् पौलस्त्यानां वधार्थमिति देवी वाक भविसूचनी ॥ १२ ॥ शबलैः नानावर्णेः । " शबलैताश्च कर्बुरे " इत्य मरः । महारथं सदश्वैर्युक्तमाचचक्ष इत्यन्वयः ॥ १३ ॥ तप्तकाञ्चनं परिशुद्धकाञ्चनम् । असम्बाधं विस्तीर्णम् । कूबरः युगन्धरः । "कूबरस्तु युगंधरः "इत्य मरः ॥ १४ ॥ मङ्गलैः मङ्गलावहैः अलङ्कारकरैरित्यर्थः । काञ्चनैः काञ्चनविकारैः। इदं विशेषणद्वयं मत्स्यादिसर्वविशेषणम् । निस्त्रिंशः असिः ॥ १५-१८ ॥ चतुर्दशसहस्राणि सन्तीति शेषः ॥ ८ ॥ ९ ॥ उदीर्णानां दृप्तानाम् । सर्वोद्योगं सर्वप्रकारेणोद्योगं चतुरङ्गबलसर्वायुधासामग्रीसहितत्वेनोद्योगं कारयेत्यन्वयः ॥ १० ॥ ११ ॥ वस्तुतस्तु दुर्विनीतस्य दुष्टेषु विनीतस्य रामस्याने पौलस्त्यानां राक्षसानां वधार्थी निर्यातुमिच्छामीति सम्बन्धः ॥ १२ ॥ शबलेः चित्रवर्णैः । रथमुपस्थितमिति शेषः ॥ १३ ॥ वैदूर्यमयौ कुरो युगंधरौ यस्य सः । असम्बाधं सम्मर्दरहितम् ॥ १४ ॥ शोभार्थं विरचितैः काञ्चनैस्सुवर्णकल्पितेः । एतच्च For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy