SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अथ चतुर्दशराक्षसवधो विंशे- ततः शूर्पणखेत्यादि ॥ १-३ ॥ मुहूर्तमिति । प्रत्यनन्तरः प्रत्यासन्नः, रक्षक इति यावत् । अस्याः पद्वीमागतानित्यन्वयः ॥ ४ ॥ प्रत्यपूजयत् परिपालितवान् ॥ ५ ॥ चामीकरं स्वर्णम् ॥ ६ ॥ स्वस्य कपटवेपत्वं परिहरन्नाह - पुत्रावित्यादि । आवां किमर्थमुपसिथ ॥७॥ ८ ॥ ततः शूर्पणखा घोरा राघवाश्रममागता । रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ १ ॥ ते रामं पर्ण शालायामुपविष्टं महाबलम् । ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥ २ ॥ तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् | अब्रवीद भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ ३ ॥ मुहूर्त भव सौमित्रे सीतायाः प्रत्यनन्तरः । इमानस्य वधिष्यामि पदवीमागतानिह ॥ ४ ॥ वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः । तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥ ५ ॥ राघवोऽपि महुच्चापं चामीकरविभूषितम् । चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ ६ ॥ पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ । प्रविष्टौ सीतया सार्धं दुश्वरं दण्डकावनम् ॥ ७ ॥ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ । वसन्तौ दण्डकारण्ये किमर्थमुपहिंस्थ ॥ ८ ॥ युष्मान् पापात्मकान् हन्तुं विप्रकारान महाहवे। ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः ॥ ९ ॥ तिष्ठतैवात्र सन्तुष्टा नोपा वर्ततुमर्हथ । यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ॥ १० ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रत्युतयुष्मानेवाहं हन्तुमागत इत्याह- युष्मानिति । विप्रकारान् हिंसकान् । भवतां प्रथमप्रवृत्तिमाकाङ्क्षन् स्थितोऽस्मीत्यर्थः ॥९॥ अत्रैव सन्तुष्टाः अभीता इति यावत् । तिष्ठत नोपावर्तितुमर्हथेति मा पलायध्वमित्यर्थः । यदिवा प्राणैः अर्थः प्रयोजनं प्राणापेक्षास्ति चेन्निवर्तध्वमित्यर्थः ॥ १० ॥ | सहसीतया वर्तमानमिति शेषः ॥ १३ ॥ प्रत्यनन्तरः प्रत्यासन्नः पालक इति यावत् । अस्याः पदवीम् अस्या मार्गम् । अस्या रक्षणार्थमागतानित्यर्थः ॥ ४ ॥ ५ ॥ चामीकरं सुवर्णम् ॥ ६ ॥ पुत्रावित्यादिश्लोकद्वयमेकं वाक्यम् । दण्डकारण्यं प्रविष्टो आवां दण्डकारण्ये वसन्तौ सन्नौ किमर्थमुपहिंस्थ । मुनीनितिशेषः ॥७॥ ८ ॥ तेषां विचारे तव किं कार्यमित्यत आह- युष्मानिति । विप्रकारान मुनिविप्रकारान् ऋषीणां नियोगेन युष्मान् हन्तुमेव प्राप्त इति सम्बन्धः ॥ ९ ॥ हे संदुष्टाः अति For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy