SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir सेति । प्राप्ते उचिते । अभ्युदये रामाभिषेकरूपे शोभने। वर्तमाने प्रत्यासन्ने सति कल्याणे भरताभिषेकरूपे भविष्यति च किमर्थ परितप्यस इति सम्बन्धः । १७॥ एवं पुत्रानार्थशां परिहत्य स्वानर्थशङ्का परिहरति-यथेति । मान्यः बहुमान्यः। भूयः भृशम् । अवहेतुमाह कौसल्यात इति । अतिरिक्तम् । अभ्यधिकं यथा भवति तथा ॥ १८॥ माभूदर्षशतात्परं भरतस्य राज्यलाभः, तथापि राज्यलाभसौख्यमस्तीत्याह-राज्यमित्यादिना ।। १९॥२०॥ सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे । भविष्यति च कल्याणे किमर्थं परितप्यसे ॥ १७॥ यथा मे भरतो मान्यस्तथा भूयोऽपि राघवः । कौसल्यातोऽतिरिक्तंचसोऽनुशुश्रूषते हिमाम् ॥ १८॥ राज्यं यदि हि रामस्य भरतस्यापितत्तथा । मन्यते हि यथात्मानं तथा भ्रातृ॑स्तु राघवः॥ १९॥ कैकेय्या वचनं श्रुत्वा मन्थराभृशदुःखिता। दीर्घमुष्णं विनिश्वस्य कैकेयीमिदमब्रवीत् ॥२०॥ अनर्थदर्शिनी मौख्यानात्मानमवबुध्यसे। शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥२१॥ भविता राघवो राजा राघवस्यानु यः सुतः। राजवंशात्तु कैकेयीभरतः परिहास्यते॥२२॥ अनर्थदर्शिनीति । अनर्थदर्शिनी अनर्थमेवार्थत्वेन दर्शनशीलेत्यर्थः। यद्वा अर्थादर्शिनी प्रयोजनानभिज्ञेत्यर्थः । मौात् अविमृश्यकारित्वात् ।। MIशोकव्यसनविस्तीर्णे विलापहेतुः शोका, व्यसनं विपत् "व्यसनं विपदि अंशे" इत्यमरः । यद्वा शोकः इष्टवियोगजं दुःखम्, भरतस्य राज्यभ्रंशेन । वनप्रापणजं दुःखमिति यावत् । विपत् स्वस्य सुखाइंशः। दुःखसागरे सपत्नीसवारूपे । मजन्ती तथाभूतमात्मानं नावबुध्यसे ।।२१॥ वर्षशतात्पर मित्युक्तभरतराज्यप्राप्ति निराकरोति-भवितेति । राघवस्यानु राघवानन्तरम् । तस्य यः सुतःस राजा भविष्यति । परिहास्यते निर्वास्यते । गत्यर्थादसे विरोधात । अवाप्ता अवाप्स्यति ॥ १६ ॥ सा त्वमिति । अभ्युदये रामाभिषेकरूपे प्राप्त समासन्ने सति । कल्याणे भरताभिषेकरूपे नियतकाले न भविष्यति सति किमर्थ परितप्यसे ॥ १७ ॥ यथेति । तथापि ततोपि भरतादपि भूयः अति शयेन राघवो मान्यः। कुतः! कौसल्यात इति ॥ १८ ॥ न केवलं वर्षशतात्पर मिदानीमपि भरतस्य राज्यमस्तीत्याह-राज्यं यदि हीति ॥ १९ ॥ २० ॥ अनर्थदर्शिनीति । शोकव्यसनविस्तीर्णे-बिलापहेतुः शोकः । व्यसनं विपत् ॥ २१॥ श्रीरामानन्तरमपि भरतस्य राज्यं नास्तीत्याह-भवितेति । राघवो राजा भविता भविष्यति यदि तर्हि राघवस्य यः सुतः स एव राजा भविष्यतीत्यर्थः । * * For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy