SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥३१९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ जाबालिमतनिरासपूर्वकं वैदिकमतस्थापनं नवोत्तरशततमे सर्गे - जाबालेरित्यादिना । सत्यात्मनां सत्यबुद्धीनां भक्त्या वैदिक धर्मश्रद्धया । अविपन्नया जावालिवचनैः सदृष्टिकैरप्यचलितया ||३|| भवानिति । प्रियकामार्थं प्रियविषयेच्छासिद्ध्यर्थे यद्वचनमुक्तवान् तत् कार्य्यसङ्काशं कार्यवत्प्रतीयमानम् । जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः । उवाच परया भक्त्या स्वबुद्धया चाविपन्नया ॥ १ ॥ भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २ ॥ निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः । मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ ३ ॥ कुलीनमकुलीनं वा वीरं पुरुषमानिनम् । चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम् ॥ ४ ॥ अनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः । लक्ष ण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ ५ ॥ अधर्मे धर्मवेषेण यदीमं लोकसङ्करम् । अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ ६ ॥ कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः । बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥७॥ अकायै पृथ्यसम्मितं पथ्यवदवभासमानम् । अपथ्यम्, दुःखोदर्कमिति यावत् । एवं वचनं दूषितम् ॥२॥ अथ वक्तारं दूषयति-निर्मर्याद इत्यादिना । निर्म र्यादः मर्यादारहितः । अतएव पापाचारसमन्वितः । तत्र हेतुः भिन्नचारित्रदर्शन इति । दर्शनं मतं वेदविहितात् भिन्नाचारप्रतिपादक मतप्रवर्त्तक इत्यर्थः । एवम्भूतः पुरुषः सत्सु मानं पूजां न लभते प्रत्युत निन्दामेव लभत इत्यर्थः ॥ ३॥ पापाचारत्वे किं प्रमाणमित्याशङ्कय तदुक्तिरेव प्रमाणमित्याह- कुलीन मित्यादिना । पुरुषमानिनम् अतिधीरमित्यर्थः । चारित्रम् उक्तरूपाचारः॥ ४ ॥ एतादृशपुरुपोपदेशश्रवणे स्वस्यानर्थं दर्शयति श्लोकत्रयेण - अनार्य इत्या जावालेरिति । सत्यात्मनां सत्यमवणस्वभावानाम् | अविपन्नया विपदमप्राप्तया, धर्मांचलितयेति यावत् ॥ १॥ प्रियकामार्थं प्रियाभिलाषनिमित्तम् यद्वचनमुक्तवान् अकार्य सत् कार्यसङ्काशं कार्यत्वेन प्रतीयमानम् । पथ्यसम्मितं पथ्यवदवभासमानम् । अपथ्यं दुःखोदर्कमिति यावत् ॥ २ ॥ निर्मर्यादमिति । निर्मर्यादः उत्पथे वर्तमानः । मानं पूजाम् । भिन्नचारित्रदर्शनः वेदविहिताचाराद्भिन्नाचारप्रतिपादकमतप्रवर्तक इत्यर्थः ॥ ३ ॥ सज्जनासज्जनस्वरूपं केन कारणेन ज्ञायत इत्यत आहकुलीनमिति ॥ ४ ॥ अनार्यमित्यादिश्लोकत्रयमेकं वाक्यम् । आर्यसङ्काशः शुचिः । लक्षण्यः लक्षणयुक्तः शीलवांश्चाहम् । अनार्यः शौचाद्धीनः अलक्षण्यः दुश्शील इव शुभं हित्वा शुभसाधनवैदिकधर्मं हित्वा । लोकसङ्करं लोकसङ्करकारकम् । क्रियाविधिवर्जितं वैदिकक्रियया वेदविधिना च वर्जितम् । इदं त्वदुक्तम धर्मम् । धर्मवेषेण धर्मत्वेनाभिपत्स्ये यदि तदा दुर्वृत्तं मां चेतयानः चेतनः पुरुषः कः लोके बहुमंस्थति न कोपीत्यर्यः ॥ ५-७ ॥ For Private And Personal Use Only टी. अ. का. ० १०९ ॥३१९॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy