SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir सदस्येत्यर्थः । राज्येन हेतुना ॥८॥९॥ आनुपूर्व्या युक्तं ज्येष्ठानुक्रमेण सङ्गतम् आत्मनि युक्तं च । भरणसमर्थे त्वय्येव प्राप्तम् ॥१०॥ भवत्विति । पतिनेति नाभाव आर्षः। रजनी यया रजनीव । भूमिः शशिनेव त्वया अविधवा भवतु ॥११॥ ममेकस्य शोकाश्रपातमसड़मानः कथमेषामणि सहिष्यत ।। तदानुपूर्त्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥१०॥ भवत्वविधवा भूमिः समग्रा पतिना त्वया। शशिना विमलेनेव शारदी रजनी यथा ॥ ११॥ एभिश्च सचिवैः सार्द्ध शिरसा याचितो मया । भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥१२॥ तदिदं शाश्वतं पित्र्यं सर्व प्रकृतिमण्डलम् । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥१३॥ एवमुक्त्वा महाबाहुः सबाप्पः कैकयीसुतः। रामस्य शिरसा पादौ । जग्राह विधिवत्पुनः ॥१४॥ तं मत्तमिव मातङ्ग निःश्वसन्तं पुनःपुनः । भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥१५॥ इति मत्वा युद्धाय संनद्धैरिव रथगजतुरगपदातिभिः सामागतोऽस्मि । सचिवैः मम हि याचनमुपेक्ष्यमस्मद्राज्यानेदिकैः पूजनीयः सचिवैयांचित । तवानतिकमणीयं हि । याचितः ममाग्रतः स्थितिरेखालं तव कार्यकरणाय किंपुनर्याचनेपि कृते । शिरसा याचितः “शिरसा याचतस्तस्य वचनं । न कृतं मया" इति खलु तव हृदयमनुशेते । मया एतावत्पर्यन्तं त्वमेव मां याचित्वा मम मनोरथं पूरितवानसि । भ्रातुः किमर्थ याचितव्यं तवानुजो न भवामि किम् । शिष्यस्य अनुजो भूत्वा भवता सह किमंशभाक् तिष्टामि मन्त्रसम्बन्धोऽपि त्वत्तः खलु । दासस्य शिष्यो भूत्वा क्रयविक्रयाहों न भवामि किम् अतः प्रसादं कर्तुमर्हसि उक्तैरमोघेः हेतुभिर्मम याच्न सफलां कुरुष्व ॥ १२ ॥ एभिश्च सचिवरित्यस्य विवक्षितं दर्शयति-तदिति । तत्पुरवर्तनदशायामसन्निहितमिदम्, इदानीं सन्निहितम् । शाश्वतं सनातनम्, परम्पराप्राप्तमिति यावत् । पूजितं पूजाईम् । प्रकृतीना मन्त्रिपृभृतीनां मण्डलं समूहम् नाविक्रमितुमर्हसि, तद्वचनं नातिक्रमणीयमित्यर्थः ॥ १३॥ एवमिति । महाबाहुः प्रसारितबाहुरिति यावत् । कैकयीसुतः मातुर दोषादियमवस्थेति भावः । पुनरिति पूर्व याचितवान् ततः शरणागतिमकरोदित्यर्थः ॥ १४ ॥१५॥ प्राप्तापवादस्य । राज्येन । हेतो तृतीया ॥ ८॥९॥ आनुपूा युक्तं ज्येष्ठक्रमेण प्राप्तम् युक्तं च आत्मनि योग्यम् ॥२०॥ पतिना । नाभाव आर्षः । शशिनेव त्वया पतिना रजनी यथा रजनीव चेति यथेवशब्दयोरन्वयः ॥ ११ ॥ १२ ॥ शाश्वतं परम्पराप्राप्तमित्यर्थः ॥ १३-१५ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy