SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ॥३०७॥ स्फोटति स्फुटति ॥ ३४ ॥ सत्या सत्यार्था । लौकिकी लोकविदिता, लोकप्रसिद्धेति यावत् । देवता इति श्रुतिः सत्येत्यन्वयः ॥ १५-१८॥ी .अ.का. रामेणेदिपिण्याकं पितुर्दत्तं समीक्ष्य मे। कथंदुःखेन हृदयं न स्फोटति सहस्रधा ॥ १४ ॥ श्रुतिस्तु खल्वियं स. १०३ सत्या लौकिकी प्रतिभाति मा। यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ १५॥ एवमात्ती सपत्न्यस्ता जग्मु राश्वास्य तां तदा । ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ १६॥ सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः। आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ १७॥ तासां रामः समुत्थाय जग्राह चरणान् शुभान् । मातृणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः॥१८॥ ताः पाणिभिः सुखस्पर्शेर्मुद्रङ्कुलितलैः शुभैः । प्रममा रजः पृष्ठा द्रामस्यायतलोचनाः ॥ १९॥ सौमित्रिरपि ताः सर्वाः मातः सम्प्रेक्ष्य दुःखितः । अभ्यवादयतासक्तं शनै रामा दनन्तरम् ॥ २० ॥ यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः । वृत्तिं दशरथाजाते लक्ष्मणे शुभलक्षणे ॥२१॥ सीतापि चरणांस्तासामुपसंगृह्य दुःखिता। श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ २२ ॥ तां परिष्वज्य दुःखार्ती माता दुहितरं यथा । वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २३ ॥ विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥२४॥ ता इति। रामस्यायतलोचना इति पाठः ॥१९॥ असक्तम् अविरतम् । "अविरतमनवरतं स्यादेकार्थमनारतमसक्तमपि " इति हलायुधः ॥२०॥ ववृतिरे ।। राज्यैश्वर्ययुक्तः । क्षोदं पिण्याकम् ॥ १३॥ न स्फोटति न स्फुटति ॥ १४ ॥ अतिरिति । सत्या सत्यार्था । लौकिकी लोके प्रसिद्धेति यावत् ॥ १५-१९ ॥ सौमित्रि रिति । असक्तमनवरतम् ॥ २०॥ ववृतिरे चरित्यर्थः ॥ २१-२५॥ स०-सत्यसङ्गरः सत्या कैकेय्या सह न विद्यते सङ्गरः कलहो यस्य सः । सत्यप्रति इति वा ॥ १८ ॥ ५॥३०॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy