________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू.
टी.अ.को स०१०३
विगर्हमाण इति । सहितः अन्योन्यतङ्गतः॥४६॥४७॥ स इति । चकार सम्मानमितिशेषः ॥४८॥४९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वयुत्तरशततमः सर्गः ॥ १०२ ॥ अथ मातृसमागमस्व्युत्तरशततमे-पसिष्ठ इति । रामदर्शनतर्षितः विगर्हमाणः कैकेयीं सहितो मन्थरामपि । अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत् ॥ ४६॥ तान्नरान बाष्प पूर्णाक्षान समीक्ष्याथ सुदुःखितान् । पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥४७॥ स तत्र कांश्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् । चकार सर्वान् सवयस्यबान्धवान् यथार्हमासाद्य तदा नृपात्मजः॥४८॥ स तत्र तेषां रुदतां महात्मनांभुवं च खं चानुनिनादयन् स्वनः। गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे॥४९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे व्युत्तरशततमःसर्गः ॥१०२॥ वसिष्ठः पुरतः कृत्वा दारान दशरथस्य च ।अभिचक्राम तं देशं रामदर्शनतर्षितः॥ १॥ राजपन्यश्च गच्छन्त्यो मन्दं मन्दाकिनी प्रति । ददृशुस्तत्र तत्तीर्थ रामलक्ष्मणसेवितम् ॥२॥ कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता। सुमित्रामब्रवीदीना याश्चान्या राजयोषितः ॥ ३॥ इदं तेषामनाथानां क्लिष्टमाक्लिष्टकर्मणाम् । वने प्राक्केवलं तीर्थं
ये ते निर्विषयीकृताः॥४॥इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः। स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥५॥ सारामदर्शने साताभिलापः । “कामोऽभिलापस्तषश्च" इत्यमरः ॥१-३॥ इदमिति । ते प्रसिद्धाः रामादयः । ये प्राकू निर्विषयीकृताः राज्यानिष्का सिताः। वने तेषां क्लिष्टम् उपमर्दितम् इदं तीर्थमवतरणम् । केवलं निश्चितम् । “केवलं निश्चिते डीबे वाच्यवत्त्वेककृत्स्त्रयोः" इति वैजयन्ती॥४॥५॥ विगईमाण इति । सहितः अन्योन्य सङ्गतः॥ ४६॥ ४७ ॥ स इति । चकार, सम्माममिति शेषः ॥ ४८॥ ४९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व | दीपिकाख्यायामयोध्याकाण्डव्यारुपायो गुत्तरशततमः सर्गः ॥१०२॥ वसिष्ठ इति । रामदर्शनतर्षितः रामदर्शने सामिलापः ॥१-३॥ ते प्रसिद्धा ये रामादयः प्राक निर्विषयीकृताः राज्यानिष्कासिताः निराश्रयीकृता वा । बने तेषां लिष्टम् उपदितं तीर्थम् अवतरणस्थलमित्यर्थः । केवलं निश्चितम् "केवलं निश्चिते कीवे स०-ष्ट हुःखरोह प्राकलनम् बहुदिनमारभ्य स्नानाद्यर्थ परिगृहीतम् । तीर्थम् अवातारप्रदेशः । इति निश्चय इति शेषः ॥ ४ ॥ वक्ष्यमाणसौमित्रिपदव्याख्यानं सुमित्रे पुत्रस्ते इति ॥ ५॥
॥३०६॥
For Private And Personal Use Only