________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वर्गादीनां तत्त्वं ज्ञात्वा हेयान् जहासि ग्राह्यान् गृह्णासि कञ्चिदिति यावत् ॥ ७॥ मन्त्रिभिरिति । यथोद्दिष्टेः शास्त्रोक्तमन्त्रिलक्षणलक्षितैः। यथाद्दिष्टमितिपाठे-नीतिशास्त्रोक्तमन्त्रविचारमार्गमनतिक्रम्येत्यर्थः । बहुभिर्मन्त्रकरणे मन्त्रभिन्नत्वसम्भवादैकमत्याभावाच्च 'चतुर्भिस्त्रिभिरेववा' इत्युक्तम् । व्यस्तैस्तत्तन्मतं परिज्ञाय समस्तैश्चतुर्भिस्त्रिभिर्वा परिगणितेमन्त्रिभिः मिथः रहसि मन्त्र मन्त्रयसे कच्चित् ॥७२॥ राज्ञामवश्यं सम्पादनीया
मन्त्रिभिस्त्वं यथोद्दिष्टश्चतुर्भिस्त्रिभिरेव वा । कच्चित् समस्तैयस्तैश्च मन्त्रं मन्त्रयसे मिथः ॥ ७२ ॥ कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः। कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ ७३ ॥ कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥७॥
यां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः । तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ ७५॥ नर्थान् पृच्छति-कञ्चित्ते सफला वेदा इति । ते वेदाः त्वदधीता वेदाः सफलाः कश्चित् । अग्निहोत्राद्यनुष्ठानेन सफलीकृताः कच्चित् । क्रियन्ते । साध्यन्त इति क्रियाः धनानि । धनानि त्वत्सम्पादितानि दानभोगाभ्यां सफलीकृतानि कच्चित् । ते दाराः सफलाः कचित् रतिपुत्राभ्यां सफलाः कच्चित् । ते श्रुतं शास्त्रश्रवणं सफलं कच्चित् शीलवृत्ताभ्यां सफलं कच्चित् । तथा च महाभारते-" अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥” इति ॥ ७३ ॥ कच्चिदेवति । आयुष्या यशस्या धर्मकामार्थसंहिता उक्ता एषा बुद्धिर्मम यथा तथैव ते तव वर्तते कच्चित ॥७॥ अथ उक्तानुक्तं सकलं साहेण दर्शयति-यामित्यादिना। वृत्तिमाचरन् वर्तते अवर्तिष्ट । यद्वा दशरथमरणास्याज्ञातत्वात! इति । अरिणा पीयमानम्य बलवदाश्रयणं समाश्रय इति विवेकः । एतान् पूर्वोक्तदशवर्गादीन यथावदनुमन्यसे कञ्चित् ग्राह्यणाहकत्वेन जानासि कञ्चित् ॥७॥ मन्त्रिभिरिति । यथोद्दिष्टेः शास्त्रोक्तमन्त्रिलक्षणलक्षितैः। बहुभिर्मन्त्रकरणे मन्त्रभिन्नत्वसम्भवादैकमत्याभावाञ्च चतुर्भिस्त्रिभिरेवेत्युक्तिः।व्यस्तैर्मन्त्रकरणे तत्तन्मतपरि ज्ञानं भवतीत्यर्थः॥ ७२ ॥ राज्ञामवश्यसम्पादनीयानि पृच्छति-कञ्चिदिति । ते वेदाः त्वदधीता बेदाः सफलाः कच्चित् त्वद्विहिताग्रिहोत्राद्यनुष्ठानेन सफली कृताः कच्चित् ! क्रियाः क्रियन्ते साध्यन्त इति व्युत्पत्या क्रियाशब्देन धनधान्यान्युच्यन्ते, त्वत्सम्पादितानि धनादीनि दानभोगाभ्यां सफलानि कच्चित । ते दारा सफलाः रतिपुत्रफलाः कच्चित् ? ने श्रुतं शास्त्रश्रवणं शीलवृत्तोत्पादनेन सफलं कश्चित् ? तथा च भारते "अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥" इति ॥ ७३ ॥ पषा धर्मकामार्थसंहिता तत्परा उक्ता एषा ते बुद्धिः मम यथा तथैव तवापि बईते कच्चित् ॥ ७४-७५ ।।
For Private And Personal Use Only