________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.अ.का. स०६
Rata
शिवर्तिनं नारायणं तुष्टाव " मित्रस्य” इत्यादिनति शेषः । शिरसा प्रणतः दण्डवत्प्रणतः। विमलक्षौमसंवीतइत्यनेन नूतनवस्त्रपरिवृत्त्या प्रातगोणमान ॥२७॥ मुक्तम् । वाचयामास स्वस्तिवाचन कारयामासेत्यर्थः ।। ७॥ तेषामिति । तूर्यघोषानुनादितः तूर्यघोषानुबन्धिनादयुक्तः॥८॥ कृतोपवासमिति ।
प्रमुदितः सन्तुष्टः अभूत् ॥९॥ तत इति। पुरी शोभयितुं चके पुरशोभोत्पादनार्थ संमार्जनालेपनवितानमालिकाबन्धनकादिकमकरोदित्यर्थः ॥३०॥
तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा । अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ ८॥ कृतोपवासं तु तदा वैदेह्या सह राघवम् । अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥९॥ ततः पौरजनः सर्वः श्रुत्वा रामा भिषेचनम् । प्रभातां रजनीं दृष्ट्वा चके शोभयितुं पुरीम् ॥१०॥ सिताभ्रशिखराभेषु देवतायतनेषु च । चतुष्पथेषु स्थ्यासु चैत्यप्वट्टालकेषु च ॥ ११॥ नानापण्यसमृद्धेषु वणिजामापणेषु च । कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२॥ सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च। ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥ १३॥
नटनर्तकसङ्घानां गायकानां च गायताम् । मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥ १४ ॥ सिताभ्रशिखराभेष्वित्यादि । चैत्येषु बौद्धालयेषु । अट्टालकेषु प्राकारोपरि युद्धाथै परिकल्पितचतुस्स्तम्भमण्डपष्विति यावत् । आलक्षितषु । आसमन्ताल्लक्षितेषु समुन्नतत्वात् दूरादप्यक्षिगोचरेष्वित्यर्थः । धजाः सचिह्नाः, पताकाः चिह्नरहिताः । समुच्छ्रिताः बद्धाः ॥११-१३॥ नटेति । नटाः नाटकाः अभिनयकर्तारः, नर्तकाः केवलाङ्गहारकृतः । मनःकर्णसुखाः “संश्रवे मधुरं वाक्यम्" इत्युक्तरीत्या श्रवणमात्रेण सुखकराः पश्चान्मनसश्चाहा दका इत्यर्थः । शुश्रुवुः जना इति शेषः ॥ १४॥ वेति । वाचयामास, स्वस्तिवाचनमिति शेषः ॥ ७॥ तेषामिति । तूर्यघोषानुनादितः तूर्यघोषानुवन्धनादियुक्तः ॥८॥९॥ तत इति । शोभयितुं चक्के अल कर्तु प्रचक्रमे ॥ १० ॥ सितावेति । अट्ठालकेषु प्राकारोपरि युद्धार्थ परिकल्पितचतुःस्तम्भनिर्भितमश्चेष्विति यावत् ॥ ११ ॥ १२ ॥ सभास्विति । आलक्षितेषु आ समन्ताल्लक्षितेषु । उन्नतेषु वृक्षेषु । ध्वजाः सचिहाः, पताकाः चिह्नरहिताः॥१३॥नटनर्तकसङ्घानाम्-नटाः नाटचं कारयितारः, नर्तकाः नाट्यकर्तारः॥१४॥१५॥
IN२७॥
For Private And Personal Use Only