________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
यद्वा नदीतटाकादितीरवनेषु समस्तवस्तुविक्रयसौकर्याय निखिलजनविदिततया कृतवारसङ्केतः । कृतापणो वणिजा समूहः समाज इत्युच्यते । यदा समाजयुक्तोत्सवशोभितः । सुकृष्टसीमा अकृष्टा ईषत्कृष्टा च भूमिर्न तत्रास्तीत्यर्थः । यदा सर्वदा सुकृष्टप्रायसीमा, अकृष्टपच्यभूमियुक्त इत्यर्थः । पशुमान गवाजादिपशुसमृद्धः । हिंसाभिः ईतिभिः पभिः " अतिवृष्टिरनावृष्टिमूषिकाः शलभाः खगाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः॥" इत्युक्ताभिः परिवर्जितः । यद्वा परस्परहिंसारहित इत्यर्थः । अदेवमातृकः देवमातृकदेशरहितः, वृष्टयेकनिष्पाद्यसस्यकदेशरहित
अदेवमातृको रम्यः श्वापदैः परिवर्जितः। परित्यक्तो भयैः सर्वेः खनिभिश्चोपशोभितः ॥ ४६ ॥ विवर्जितो नरैः पापैर्मम पूर्वेः सुरक्षितः। कच्चिजनपदः स्फीतः सुखं वसति राघव ॥४७॥
कञ्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः । वार्तायां संश्रितस्तात लोको हि सुखमेधते ॥४८॥ इत्यर्थः । सरयूतीरस्थत्वेन सर्वतो नदीमातृक इति यावत् । “नद्यम्बुजीवनो देशो नदीमातृक उच्यते । वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातृकः॥' इति हलायुधः । रम्यः आरामादिशोभितत्वेन रमणीयः। श्वापदैः व्याघ्रादिहिंस्रपशुभिः परिवर्जितः। भयैः सर्वैः भयहेतुभिश्चोरादिभिः सर्वैः परित्यक्तः परित स्त्यक्तः, तत्समीपदेशेपि चोरादिभयं नास्तीत्यर्थः । खनिभिः रत्नसुवर्णरजताद्याकरैः। “खनिः स्त्रियामाकरः स्यात्" इत्यमरः । पुनः कच्चिच्छन्देन प्रतिविशेषणं प्रश्ना इति गम्यते "आद्यन्तयोः प्रयुक्तोऽयं कुतो नान्वेति मध्यतः। प्रष्टव्यतायां तुल्यायां केनार्धजरतीक्रमः। आदरातिशयोऽनेन श्रीमत् कोसलगोचरः । गम्यते रघुनाथस्य मुक्तियेनापिपीलिकम् ॥” ॥ ४४-४७॥ कच्चित्ते दयिता इति । कृपिगोरक्षजीविनः वैश्याः। दयिताः कश्चित् अर्थ सम्पादनद्वारा अभिमताः । वार्तायां क्रयविक्रयात्मकवाणिज्ये सति। "वार्ता वागिङ्गितोदन्तवाणिज्यादिषु वर्तते" इतिवैजयन्ती । संश्रितोलोकः त्वत्सं अदेवमातृका वृष्टिनिष्पाद्यसस्यो देशो देवमातृकः स न भवतीत्यदेवमातृकः, नदीमातृक इत्यर्थः । तथा च हलायुधः "नद्यम्पुजीवनो देशो नदीमातृक उच्यते । वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातकः ॥” इति । खनिभिः रत्नसुवर्णरजताद्याकः, एतादृशजनपदः सर्भयैः परित्यक्तः कच्चित् सुखं वसति कच्चिदिति कञ्चिच्छब्दद्वयस्य निर्वाहः ॥ ४६॥४७॥ कृषिगोरक्षजीविनः वैश्यादयः । दयिताः अर्थसम्पादनद्वारा अभिमताः । वार्तायां क्रयविक्रयादिरूपवाणिज्ये सति संश्रितः
For Private And Personal Use Only