SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥२६॥ www.kobatirth.org तमिति । नृपो दशरथः । राजासनं स्वाधिष्ठितं सिंहासनं हित्वा प्रत्युत्थायेत्यर्थः । पप्रच्छ किं रामस्योपवासः कारित इतीति शेषः । सः वसिष्ठः तस्मै दशरथाय । तत् उपवासकरणम् ॥ २३ ॥ तेनेति । तदा दशरथसमुत्थानकाले । तुल्यं युगपत् ॥ २४ ॥ २५ ॥ तदिति । विदीपयन् तेजो विशेषेण द्योतयन् ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥ तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः । पप्रच्छ स च तस्मै तत् कृतमित्यभ्यवेदयत् ॥ २३ ॥ तेन चैव तदा तुल्यं सहासीनाः सभासदः । आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ २४ ॥ गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् । विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ २५ ॥ तदग्र्यरूपं प्रमदागणाकुलं महेन्द्रवेश्मप्रतिमं निवेश नम् । विदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसङ्कलं नभः ॥ २६ ॥ इत्यार्षे • श्रीमदोध्याकाण्डे पञ्चमः सर्गः ॥ ५ ॥ गते पुरोहिते रामः स्नातो नियतमानसः । सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ १ ॥ प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा । महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandin अथ रामस्याभिषेकसन्नाहं दर्शयति षष्ठे गत इत्यादि । पुरोहिते गत इत्यसन्निधानकृतराजसगुणनिमित्तकनास्तिक्यव्यावृत्तिः । स्रात इति कायशुद्धिः । नियतमानस इति मनःशुद्धिः । सहपत्न्येति श्रीरङ्गविग्रहानुभवसागरतरणस्य सहायोक्तिः । “पत्युनों यज्ञसंयोगे" इति दीक्षानियमस्य पत्नीसहायत्वोक्ति श्व तृतीयया आराधनकाले सीताया उपकरणसमर्पणपरता व्यज्यते । विशालाक्ष्येति रामविग्रहानुभवादपि श्रीरङ्गविग्रहस्य निरतिशयप्रियास्पदस्वेन निर्निमेषानुभव उक्तः । विशालाक्ष्या नारायणमिति सीता नेत्रवागुरानाकृष्टतया सीताया अप्राधान्यम्, नारायणस्य स्वाभीप्सिततमत्वेन प्राधान्यं चोक्तम् । अत्र नारायण इति श्रीरङ्गनायक उच्यते, उत्तरत्र तस्यैव विभीषणाय दानोक्तेः ॥ १ ॥ तनि० अत्र विशेष्यानुपादानाद्विशालाक्षीशब्दस्य लक्ष्म्यां रूढिप्रायत्वं व्यज्यते । अतएव "ऋते मायां विशालाक्षीं तब पूर्वपरिग्रहम्" इत्यत्र विशालाक्षीशब्देन लक्ष्मीरूपविशेष्यं व्यज्यते । अत्र नारायण इति श्रीरङ्गन्नायक उच्यते । उपागमदि त्यत्र अगमदित्यनेन भगवन्मन्दिरप्रातिकथनादुपशब्देन निवेदनपर्यन्तभगवदाराधनं व्यज्यते ॥ १ ॥ प्रगृह्येति । शिरसा पात्री प्रगृह्येति " उपरि हि देवेभ्यो धारयति " तेनेति । तुल्यं तुल्यकालं समुत्तस्थुरित्यन्वयः ॥२४-२६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चमः सर्गः ॥५॥ ॥ गत इति । नारायणमुपागमत् उपासाञ्चक्रे ॥ १ ॥ प्रगृह्येति । महते देवताय नारायणाय ॥ २ ॥ For Private And Personal Use Only श्री. अ. का. स० [६] ॥२६॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy