SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir वा.रा.भू. ॥२४॥ प अम्बेति । मे पितुःशासनं यथा तथाभिषेकः श्वो भवितेति सम्बन्धः ॥ ३५॥ सीतयेति । सीतया मयापि सह तुल्यतया इयं रजनी एतद्दिनरात्रिःटी .अ.को उपवस्तव्या अस्यां रजन्यामुपवस्तव्यमित्यर्थः। किं त्वयैवोच्यते ? नेत्याइ एवमिति ॥३६॥ यानीति । मङ्गलानि मङ्गलकर्माणि ॥३७॥ एतदिति । इपास.४ बाष्पकलं वाक्यं हर्षबाष्पेण कलमव्यक्तमधुरं वाक्यं ईपद्वाक्यम् ॥३८॥ वत्सेति । हताः भवन्त्वितिशेषः । ज्ञातीन् बन्धून् ॥ ३९ ॥ कल्याण इति । अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि । भविता श्वोभिषेको मे यथा मे शासनं पितुः ॥३५॥ सीतयाप्युपव स्तव्यारजनीयं मया सह । एवमृत्विगुपाध्यायैः सह मामुक्तवान पिता ॥३६ ॥ यानि यान्यत्र योग्यानिश्वोभावि न्यभिषेचने। तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥३७॥ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकांक्षितम् । हर्षवाष्पकलं वाक्यमिदं राममभाषत ॥ ३८ ॥ वत्स राम चिरञ्जीव हतास्ते परिपन्थिनः । ज्ञातीन मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥३९॥ कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक । येन त्वया दशरथो गुणैराराधितः पिता ॥ ४० ॥ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे। येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥४१॥ इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् । प्राञ्जलिं प्रहमासीनमभिवीक्ष्य स्मयन्निव ॥४२॥ कल्याणे अतिशोभने नक्षत्रे मयि जातोऽसि । बतेति सन्तोषे । “खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत" इत्यमरः । मयेतिपाठे-मया हेतुनेत्यर्थः।। येन-येन कारणेन ॥४०॥ अमोघमिति । पुष्करेक्षणे पुण्डरीकाक्षे, पुरुषे नारायणे विषये। मेक्षान्तं व्रतोपवासादिक्लेशसहनम् । अमोघं सफलम् । साफल्ये। हेतुमाह येयमिति । सा संश्रयिष्यतीतिशेषः ॥ ११ ॥ इतीति । स्मयन्निव, समन्दस्मित इत्यर्थः। सन्तोपातिशयेनात्रवीदिति भावः ॥१२॥ मे पितुः शासनं यथा तथा मे अभिषेक श्वो भविष्यतीति सम्बन्धः ॥ ३५ ॥ ३६ ॥ मङ्गलानि मङ्गलकर्माणि ॥ ३७ ॥ ३८ ॥ वत्सेति । परिपन्धिनः शत्रवः हता भवन्त्विति शेषः । ज्ञातीन् बन्धन ॥ ३९ ॥ कल्याण इति । मया जातो जनितः ॥ ४०॥ अमोघमिति । बतेति हर्षे । पुरुषे परमपुरुषविषये । मे क्षान्तम व्रतोपवाससहनम् ।अमोघं सफलं जातम् । साफल्ये देतुमाह येयमिति ॥४१॥ ४२ ॥ M ॥२४॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy