________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
टी.अ.का. स०९०
व.रा.भ.रामदन्तरे मदसन्निधौ । नाददे नाङ्गीकृतवानस्मि ॥ १६॥ अहमिति । प्रसादकः प्रसादयितुम् । “तुमुन्ण्वुलो कियायां कियार्थायाम्" इति ण्वुल ॥२६६॥
॥७॥ त्वमिति । एवंगतं एवं बुद्धा प्राप्तं महीपतिः, वर्त्तत इति शेषः ॥ १८॥ वसिष्ठादिभिरिति । याचितः भरताय प्रसन्नो भवेति प्रार्थितः।। प्रसादावाच प्रसादं प्राप्योवाच । ल्यबलोपे पञ्चमी ॥ १९ ॥ त्वयीति । गुरुवृत्तिः ज्येष्ठानुवर्तनम् । दम इन्द्रियनिग्रहः, राज्यालोलत्वमिति यावत् ।
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ १७॥ त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे भगवन रामः क्व सम्प्रति महीपतिः ॥ १८॥ वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्ततः । उवाचतं भरद्वाजः प्रसादाद्भरतं वचः ॥ १९ ॥ त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । गुरुवृत्ति दमश्चैव साधूनां चानुयायिता ॥२०॥ जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति । अपच्छं त्वां तथात्यर्थ कीत्ति समभिवर्द्धयन् ॥२१॥ जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम् । असौ वसति ते भ्राता चित्रकूटे महागिरौ
॥ २२ ॥ श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः । एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २३ ॥ साधूनां चानुयायिता सञ्चित्तानुवर्त्तनम् । इत्येतत्रयं त्वयि युक्तमित्यन्वयः ॥२०॥ जान इति । जाने योगप्रभावेनेति शेषः। दृढीकरणमस्त्वित्यपृच्छं| स्थूणानिखननन्यायेन दृढीकर्तुमपृच्छमित्यर्थः । कीर्ति रामविषयसौभात्रजनितां समभिवर्द्धयन् । “लक्षणहेत्वोः क्रियायाः" इति हेत्वर्थे शत् प्रत्ययः ॥२१॥ जान इति । रामं जाने देशविशेषे स्थितं रामं जान इत्यर्थः॥२२॥श्व इति । काममभीष्टं कामार्थकोविद काहितार्थप्रदानदक्षेत्यर्थः॥२३॥ प्रसादका प्रसादयितुम् ॥ १७ ॥ १८ ॥ वसिष्ठादिभिः याचितः भरताय प्रसनो भवेति प्रार्थितः। प्रसादात् प्रसाद प्राप्योवाचेत्यर्थः ॥ १९॥ एतत् गुरुवृत्यादि वयम् ॥ २०॥ कीर्ति रामविषयसौभ्रात्रजनिताम् ॥ २१ ॥ २२ ॥ श्व इति । कामार्थकोविद वाञ्छितार्थप्रदानदक्षेत्यर्थः ॥ २३ ॥
स०-कामा कामितार्थे, तहान इति यावत् । कोविद । यद्वा सुप्राज्ञेत्युपसर्गहयेन धर्मविषयकवानववस्पोक्तत्वादत्र कामार्थयोः कोविदेत्यर्थः ॥ २३ ॥
२६६॥
For Private And Personal Use Only