________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
आसक्तम् इदमासञ्जनं सुव्यक्तं सीतया सीतयाः।। १५ ।। मन्य इति । या कापि भर्तुः शय्या पतिव्रतायाः सुखेति मन्ये । यतः सुकुमारी मैथिली सती पातेवता अस्मिन्नपि शयने शयिता दुःखं न जानाति ॥ १६॥ हाइन्तेति । हाइन्तेत्येकनिपातः खेदार्थः । अई दृशंसोस्मि निर्दयोस्मि । मम कृते मन्त्रि मित्तम् । कृते इत्यव्ययम् ॥१७॥ जन्मना शक्तिमत्तया प्रजारञ्जकत्वेन शरीरलक्षणेन च राज्याह) रामः कथमेतादृशी दुर्दशां प्राप्त इति खिद्यति-सार्वभौम
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुःखं न विजानाति मैथिली ॥ १६ ॥ हा हन्तास्मि नृशंसोऽहं यत् सभार्यः कृते मम । ईदृशी राघवः शय्यामधिशेते ह्यनाथवत् ॥ १७॥ सार्वभौमकुले जातः सर्वलोकस्य सम्मतः । सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम् ॥ १८॥ कथमिन्दीवरश्यामो रक्ताक्षः प्रिय दर्शनः। सुखभागी न दुःखार्हः शयितो भुवि राघवः ॥ १९॥ धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः । भ्रातरं विषमे काले यो राममनुवर्तते ॥२०॥ सिद्धार्था खलु वैदेही पति यानुगता वनम् । वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥२१॥ अकर्णधारा पृथिवी शून्येव प्रतिभाति मा। गते दशरथे स्वर्ग रामे चारण्य माश्रिते ॥२२॥ न च प्रार्थयते कश्चिन्मनसापि वसुन्धराम् । वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥२३॥
शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् । अपावृतपुरद्वारा राजधानीमरक्षिताम् ॥२४॥ कुले जात इत्यादिना श्लोकद्वयेन ॥ १८॥ १९॥ धन्य इति । विषमे काले सङ्कटे काले ॥२०॥ सिद्धार्थोति । पतिमनु पतिमनुसृत्य वनं गतेति सम्बन्धः। संशयिताः अस्मत्सेवां रामोऽङ्गीकरिष्यति नवेति संशयिताः ॥२१॥ अकर्णधारेति । अकर्णधारा प्रधानपुरुषरहितेति यावत् । अतएव शून्येव प्रतिभाति २२॥ अनायकत्वे कथं राज्यं निरुपद्रवम् ? तत्राह-नचेति । कश्चित् सामन्तान प्रार्थयते आकमितुं नेच्छति।।२।।रामवीय विना रक्षकान्तरशून्यत्वमाह।।
शून्यसंवरणेत्यादि । शून्यसंवरणारक्षाम् अविद्यमानप्राकाररक्षकाम् । यदा शून्यसंवरणः गुप्तिरहितः आरक्षःगुल्मस्थानं यस्याः सा तथा । अयन्त्रिता Hellन मैथिली दुःखं न विजानाति तेन कारणेन भर्तुश्शया पतिव्रतानां सुखेति मन्य इति सम्बन्धः ॥१६-२०॥ सिद्धार्थेति । पतिमनुसृत्य वनं गता अतः सिद्धार्थी
वयं संशयिताः स्वस्य पुरुषार्थविषयसंशयं प्राप्ताः ॥२१॥ अकणेति । अकणधारव कर्णधाररहिता नौरिव । शून्या नायकरहिता ॥ २२ ॥ २३॥ शून्येति । शून्य
For Private And Personal Use Only