SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रामस्य तुष्टः रामविषये तुष्टः । यदादुष्ट इतिपाठे - अदुष्ट इति पदच्छेदः । स्वस्तिमतीति अन्यथा इन्तव्येतिभावः ॥ ९ ॥ उपायनं कौशेयादि । मां सं || मृगाणाम् ॥ १० ॥ ११॥ स्थपतिः प्रभुः । दण्डकारण्ये कुशलः तत्र सञ्चरणसमर्थ इत्यर्थः । विजानीते तं देशमित्यर्थः॥१२- १४॥ प्रह्नः कृतप्रणामः ॥१५॥ यदा तुष्टस्तु भरतो रामस्येह भविष्यति । सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ ९ ॥ इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च । अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ १० ॥ तमायान्तं तु संप्रेक्ष्य मृतपुत्रः प्रतापवान् । भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् ॥ ११ ॥ एष ज्ञातिसहस्रेण स्थपतिः परिवारितः । कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ १२ ॥ तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः । असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ १३ ॥ एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् । उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ १४ ॥ लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः । आगम्य भरतं प्रह्नो गुहो वचनमब्रवीत् ॥ १५ ॥ निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्। निवेदयामस्ते सर्वे स्वके दासकुले वस ॥ १६ ॥ अस्ति मूलं फलं चैव निषादैः समुपाहृतम् । आर्द्रश्च मांसं शुष्कञ्च वन्यं चोच्चावचं महत् ॥ १७ ॥ अयं देशः मदधिष्टितवनप्रदेशः । ते निष्कुटः गृहारामभूतः । " गृहारामस्तु निष्कुटः " इत्यमरः । त्वद्भोगयोग्य इतियावत् । वयं च वञ्चिताः अत्र गमनानिवेदनेन वञ्चिता इत्यर्थः । निवेदने हि प्रत्युद्गमनादिकं कर्तुं शक्यमिति भावः । सर्वे वयं ते, त्वदीया इत्यर्थः । अतः स्वके दासकुले दासगृहे वसेति निवेदयामः विज्ञापयामः । पूर्व गङ्गामासाद्येति गङ्गापर्यन्तमार्गकरणेपि अद्य मनुष्य प्रेरणाभावात्त्वदागमनं न ज्ञातवानस्मीति गुहेनोच्यते ॥ १६ ॥ वन्यं यदादुष्ट इत्यत्र अदुष्ट इति छेदः । ९-११ ॥ एष इति । दण्डकारण्ये कुशलः तत्र सधारकोविद इत्यर्थः ॥१२- १५॥ निष्कुटश्चेति । अयं देशो निष्कुटश्चैव गृहाराम एव । वश्विताः अत्रागमनानिवेदनेन वजिताः, विपन्नास्सर्वे वयं च त्वदीयाः अतः स्वके स्वकीये दासकुले दासगृहे वस इति निवेदयामः प्रार्थयामः इति सम्बन्धः १६ ॥ १७ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy