SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir अस्य दुःखमनुत्पादयन्ती मृदूक्त्या मरणमाइ-येति । यायकः इज्याशीलः। “इज्याशीलो यायजूकः" इतिहलायुधः।।१५-१७॥तत इति । शोकेन संवीतः शोकेनावृतः। मरणदुःखितः मरणश्रवणेन सातदुःखः । भ्रान्ता अनवस्थिता आकुलिता खिन्ना चेतना यस्य सःभ्रान्ताकुलितचेतनः॥१८॥ या गतिः सर्वभूतानां तां गतिं ते पिता गतः। राजा महात्मा तेजस्वी यायजूकः सतां गतिः ॥ १५॥ तच्छृत्वा भरतो वाक्यं धर्माभिजनवाञ्छुचिः। पपात सहसा भूमौ पितृशोकबलार्दितः ॥ १६ ॥ हा हतोस्मीति कृपणां दीनां वाचमुदीरयन् । निपपात महाबाहुर्बाहू विक्षिप्य वीर्यवान् ॥१७॥ ततः शोकेन संवीतः पितुर्मरणदुःखितः। विललाप महातेजा भ्रान्ताकुलितचेतनः॥ १८॥ एतत् सुरुचिरं भाति पितुर्मे शयनं पुरा। शशिनेवामलं रात्री गगनं तोयदात्यये॥ १९॥ तदिदं न विभात्यद्य विहीनं तेन धीमता । व्योमेव शशिना हीनमाच्छुष्क इव सागरः ॥२०॥ बाष्पमुत्सृज्य कण्ठेन स्वार्तः परमपीडितः। प्रच्छाद्य वदनं श्रीमद्रोण जयतां वरः ॥२१॥ तमात देवसङ्काशं समीक्ष्य पतितं भुवि । निकृत्तमिव सालस्य स्कन्धं परशुना वने ॥ २२ ॥ मत्तमातङ्गसङ्काशं चन्द्रार्क सदृशं भुवः। उत्थापयित्वा शोकात वचनं चेदमब्रवीत् ॥२३॥ उत्तिष्ठोत्तिष्ठ किं शेषे राजन्नत्र महायशः । त्वद्विधा नहि शोचन्ति सन्तः सदसि सम्मताः ॥ २४ ॥ विलापमेवाह-एतदित्यादिना ॥ १९॥ तदिति । अपच्छुष्कः शुष्कापः। आहिताग्र्यादित्वात्रिष्ठायाः परनिपातः। उच्छुष्क इति पाठान्तरम्॥२०॥ बाप्पमिति । कण्ठेन कण्ठस्वरेण । स्वातः सुतरामातः, अभवदिति शेषः । परमपीडितः मानसव्यथायुक्तः ॥२१-२३॥ उत्तिष्ठोत्तिष्ठेति । राजनिति यायजूकः यज्ञशीलः ॥ १५॥ धर्माभिजनवान् धर्मः धर्मयुक्त अभिजनः अन्वयो यस्यास्तीति तथा ॥ १६ ॥ १७ ॥ मरणदुःखितः मरणश्रवणेन सनातदुःखः En१९॥ अच्छुष्का शुष्कापः । निष्ठायाः परनिपातः ॥ २० ॥ बाप्पमिति । वदनं वस्त्रेण प्रच्छाद्य कण्ठेन सस्वरेण बाष्पमुत्सृज्य सस्वरं रुदित्वेत्यर्थः । स्वातः अभवदिति शेषः ॥२१-२३ ॥ राजपुत्रेति वा राजन्नत्रेतिया पाठः ॥२४॥ स-मतमातासाशं पूलिप्रक्षेपण गजसदशम् । चन्द्रार्कसदशम रामपक्षाणी चन्द्रसदृशम् अन्येषाँ तापकत्वेन सूर्यसमिति विवेकः ॥२३॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy