________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभीष्टान्नपानादिभिः ॥६॥ कच्चिदिति । अरोगता आरोग्यम् । आरोग्यतेति पाठे - स्वार्थे ष्यञ् ॥७॥ आर्येति । आर्या ज्येष्ठमातृत्त्वेन पूज्या । धर्मनिरता धर्मानुष्ठानपरा । धर्मज्ञा ज्ञात्वानुष्ठानमितिन्यायेन अनुष्ठान मूलज्ञानयुक्ता । धर्ममेव जनेषु पश्यतीति धर्मदर्शिनी, गुणग्राहिणी न दोषदर्शिनीत्यर्थः । कच्चि कुशली राजा पिता दशरथो मम । कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ॥ ७ ॥ आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी । अरोगा चापि कौसल्या माता रामस्य धीमतः ॥ ८ ॥ कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्म णस्य या । शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा ॥ ९ ॥ आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी । अरोगा चापि मे माता कैकेयी किमुवाच ह ॥ १० ॥ एवमुक्तास्तु ते दूता भरतेन महात्मना । ऊचुः सप्रश्रयं वाक्य मिदं तं भरतं तदा ॥ ११ ॥ कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि । श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः ॥ १२ ॥ भरतश्चापि तान दूतानेवमुक्तोऽभ्यभाषत । आष्टच्छेऽहं महाराजं दूताः सन्त्वरयन्ति माम् ॥ १३ ॥ अप्यरोगेत्वन्वयः । अपिः प्रभे । धीमत इत्यनेन पुत्रकृतातिशय उच्यते ॥ ८ ॥ कच्चिदिति । सेति धर्मज्ञत्वस्मरणाभिनयः । मध्यमेत्यनेन "न तेऽम्बा मध्यमा बात" इत्यत्र कैकेय्या मध्यमात्वमितरख्यपेक्षया ॥ ९ ॥ आत्मकामेति । आत्मानं कामयत इति आत्मकामा, स्वप्रयोजनपरेत्यर्थः । प्रज्ञेव प्राज्ञा प्राज्ञामात्मानं मन्यत इति प्राज्ञमानिनी । "मनः” इति णिनिः । “क्यङ्मानिनोश्व" इति पुंवद्भावः । चण्डी उग्रा । क्रोधना क्रोधवती। मे माता अप्यरोगा कैकेयी किमुवाच स्वबन्धुविषये किमुवाचेत्यर्थः । दुःस्वप्रदर्शनदूतागमनाभ्यां कैकेय्या किञ्चित्कृतं भवेदित्यूहितवान् भरत इति सूचय त्यात्मकामेत्यादिभिः ॥ १० ॥ एवमिति । महात्मना महाबुद्धिना । एतेनायोध्यावृत्तान्तोऽनेन ज्ञात इति सूचितम् । सप्रश्रयं सविनयम् । अनेन सर्वा रमना अयोध्यावृत्तान्तगोपनं सूच्यते । तदेत्यनेन किञ्चित् विलम्बोक्तौ भरतोऽन्यथा मन्येतेति झटित्युत्तरमुक्तमित्युच्यते ॥ ११॥ कुशला इति । कुशला इति सामान्योक्तिः प्रत्येकोक्त्या सन्देहानुत्पादाय । श्रीः लक्ष्मीः । पद्मा पद्महस्ता । अर्श आद्यच् । राज्यश्रीरिति हार्दो भावः । अमङ्गल्यव्यावृत्ति भरतप्रत्याय्या ॥ १२ ॥ भरत इति । एवमुक्तो भरतः दूताः मां संत्वरयन्तीति महाराजमापृच्छ इति तान् दूतानभ्यभाषतेति योजना ॥ १३ ॥ कुशलास्त इति । पद्मा पद्महस्ता । अर्शाद्यच् । श्रीः त्वां वृणुते इति लक्ष्मीवरणोक्तिः अमङ्गलव्यावृत्यर्था न तु राज्य श्रीमातिपरा। राजमरणादिकं न वक्तव्य मिति वसिष्ठेनोक्तत्वात् ॥ १२ ॥ भरतश्रेति । एवमुक्तो भरतः दूता मां त्वरयन्तीति महाराजमापृच्छ इति तान् दूतान् अभ्यभाषतेति सम्बन्धः ॥ १३ ॥ १४ ॥
For Private And Personal Use Only