SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir बा.रा.भू. ॥१९९॥ Mचतुर्दशवर्षानन्तरं रामो राज्यं प्राप्स्यतीत्याशय परिहरति-यदीति । पञ्चदशे वर्षे राघवो यदि पुनरेष्यति तथापि राज्यं कोशश्च जलात् टी.अ.का. त्यजेत् । कुतः ? यस्मात् कारणात् भरतेनोपभुज्यते भरतेनोपभुक्ततया तेन पुनर्दत्तमपि राज्यं रामस्त्यजेदित्यर्थः । भरतो नोपलक्ष्यत इति । विस०६१ यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यश्च कोशश्च भरतेनोपभुज्यते ॥ ११ ॥ भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान्।ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ १२॥ तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः। न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ १३॥ ब्राह्मणेष्वपि तृप्तेषु पश्चादोक्तुं द्विजर्षभाः। नाभ्युपैतुमलं प्राज्ञाःशृङ्गच्छेदमिवर्षभाः ॥१४॥ पाठान्तरम् । राज्यं कोशं च भरतो जह्यात् इदं तु नोपलक्ष्यते यद्रामः पुनर्भरतदत्तं राज्यं प्रतिगृह्णीयादिति । यदा यदि राघवः पुनरेष्यति ।। तदा भरतः राज्यं कोशंच जह्यादिति नोपलक्ष्यते । करस्थराज्यत्यागस्यासम्भावितत्वादित्यर्थः । भरतो यदि भोक्ष्यत इति च पाठः ॥११॥ भरतेनोपभुक्ततया पुनर्दत्तमपि राज्यं रामो न भोक्ष्यत इत्यत्र दृष्टान्तमाह-भोजयन्तीत्यादिना । किलेति वार्तायाम् । लोके केचित् ब्राह्मणाः विद्यागुण वयोभ्यधिकेषु विप्रेषु विद्यमानेषु दक्षिणाविशेषप्रापणलोभेन स्वानेव बान्धवान् श्राद्धे भोजयन्ति । ततः पश्चात्तदनन्तरं कृतकार्याः कृतश्राद्धकार्याः सन्तः श्राद्धावसाने द्विजर्षभान पूर्वभुक्तविप्रापेक्षया विद्यावृत्तवयोभिः श्रेष्ठान समीक्षन्ते इष्टपतो भोजयितुमिच्छन्ति । तत्र तदानीं ये गुणवन्तः वृत्तवन्तो विद्वांसः विद्यावन्तः सुरोपमाः देववत्पूज्यतमाः वृद्धाः द्विजातयः ते पश्चादिष्टपडो सुधामपि अमृततुल्यान्नमपि नाभिमन्यन्ते नाद्रियन्ते ॥ १२ ॥१३॥ ननु कुतो नाद्रियन्ते ब्राह्मणशेषभोजने शूद्रशेषवनिषेधाभावादित्यवाह-ब्राह्मणेष्वित्यादिना । तृप्तेष्वपि ब्राह्मणेषु पूर्वभुक्तानां ब्राह्मणत्वेपीत्यर्थः । प्राज्ञाः भरतः राज्य कोशं च जह्यादिति नोपलक्ष्यत इति सम्बन्धः॥११॥ भरतो राज्यं जह्याच्चेदपिरामस्तु नप्रतिग्रहीयादिति सदृष्टान्तमाह-भोजयन्तीत्यादिश्लोकत्रयेण । काचत श्राद्धकतोरो बाह्मणाः। द्विजर्षभान द्विजश्रेष्ठान निमन्त्र्य, तान् त्यक्त्वा अनिमान्वितान् स्वान् बान्धवानेच पूर्व भोजयन्ति, ततः कृतकार्याः श्राद्धकताःतान निमन्त्रितान द्विजर्षभान पश्चाद्भोक्तुं समीक्षन्ते भोजयितुं विचारयन्ति किल,ये निमन्विताः सुरोपमाः गुणवन्तः विद्वांसः द्विजातयः ते तत्र श्राद्धे सुधामपि सुधासदृश ॥१९९।। मपि पश्चादनिमन्वितबन्धुभोजनानन्तरं,नाभिमन्यन्ते भोक्तुं नेच्छन्ति । ब्राह्मणेषु बान्धवब्राह्मणेषु तृप्तेष्वपि प्राज्ञा निमन्त्रिता द्विजर्षभाः वृषभाःस्वङ्गच्छेदमिव पश्चा VIोकुमभ्युपेतुं च । नालं न समर्थाः। अनिमन्त्रितबन्धुभोजनानन्तरं निमंत्रिता द्विजर्षभाः भोजन न कारयन्तीति भावः। स्वधामपीति पाठे-स्वर्धा श्राद्धम्॥१२-१४॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy