SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahajan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie पेक्षया आर्ततया हेतुना विशेष नोपलक्षये । कुत्रचित्पुरुषे मित्राणि च न स्वकार्याणि कुर्वन्ति नापि शत्रवोपीति भावः ॥ १४ ॥ अप्रहृष्टमनुष्येत्यादि श्लोकव्यमेकान्वयम् । विनिश्वसितनिस्वमा दीर्घनिश्वासस्वनयुक्ताः । यद्वा विनिश्वसितस्येव निस्वनो यस्याः सा। व्याधिविशेषोपरुद्धनिश्वास अप्रहृष्टमनुष्या च दीननागतुरङ्गमा। आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना ॥३५॥ निरानन्दा महाराज राम । प्रवाजनातुरा। कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा॥१६॥ मूतस्य वचनं श्रुत्वा वाचा परमदीनया। बाष्पो । पहतया राजा तं सूतमिदमब्रवीत् ॥१७॥कैकेय्या विनियुक्तेन पापाभिजनभावया । मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम् ॥१८॥न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा च नैगमैः। मयायमर्थःसम्मोहात स्त्रीहेतोः सहसा कृतः॥ १९॥ जनवदविरतहाहाकारयुक्तेत्यर्थः । सन्निहितत्वेन कौसल्या दृष्टान्तीकरोति । पुत्रहीना पुत्रवियुक्ता । एतावता प्रबन्धेन रामस्य सर्वात्मकता ऋषिणा |ऽनुसंहितेति प्रबन्धगतवस्तुध्वनिः ॥ १५-१७॥ सुमन्त्रे पृष्टस्योत्तरमभिधाय ततोषिकं राज्यपुरुषक्षोभादिकं कथयति सति तन्ममावत्यकरणद्योत नार्थमिति बुद्धाङ्गीकारेणोत्तरमाइ-केकेय्येति । विनियुक्तेन "प्रतिज्ञा प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि । अथ तब्याहरिष्यामि यदभिप्रार्थितं मया।" इत्युक्तक्रमेण विशेषेण नियोगं प्रापितनेत्यर्थः । पापाभिजनभावया पापविषयजन्मभूम्यभिप्राययुक्तया । यद्वा पापो योऽभिजनभावः कुलक्रमागतोमा प्रायः स यस्यास्तया "कुलेप्यभिजनो जन्मभूमौ" इत्यमरः । “शंस मे जीव वा मा वा न मामुपहसिष्यसि" इत्युक्तवत्या मात्रा तुल्यस्वभावये मत्यर्थः । न समर्थितं न विचारितम् ॥ १८॥न सुहद्भिरिति । निगमः पुरं"पुरं वणिक्पथो वेदो निगमः" इत्यमरः । तत्र भवा नेगमाः तेः।। न ज्ञायते । उपकारापकारतदुभयनिवृत्तिभिर्हि तेषां भेदज्ञानमिति भावः ॥ १४ ॥ अप्रहृष्टेति । विनिश्वसितनिस्वना दीर्घनिश्वासस्वनयुक्ता ॥ १५-१७ ॥ सुमन्त्रः पृष्टस्योत्तरमभिधाय ममात्यकरणद्योतनार्थ ततोऽधिकं कथयतीति बुद्ध्वा अङ्गीकारणोत्तरमाहु-कैकेय्येति । विनियुक्तेन, रामं प्रव्राजयेति शेषः । पापाभिजन भाषया पापानां जन्मभूम्पभिप्रायया "कुलेखभिजनो जन्मभूमी" इत्यमरः॥ १८॥ नेति । नैगमैः वेदशास्त्रविद्भिः ॥ १९-२१ ॥ सत्य-गमः वेदविचारकुशलः सह वर्तन्त इति सनेगमाः तैः । यहा सनगमैः सनगरस्थैः । “ नैगमः स्यादुपनिषणिजोन गरेऽपिच " इति विश्वः । मुहदिन सुद्धिरिव । " नअभावे निषेधे च स्वरूपार्थेs प्यतिक्रमे । ईषदथें च साश्ये तद्विद्धतदम्ययोः ॥” इति विश्वः । एवं च तैरिवामात्यैर्न च मन्त्रयित्वेत्यर्थः । न मुहष्ट्रिः शत्रुभिरपि अयमर्थः सहसा अकृतः । मया तु कृत इति न समासमङ्गीकृत्येवं व्याख्येयम् । (सनेगम इति पाठः) ॥ १९ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy