________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
षा.रा.भू. ॥१८४॥
५५
नमस्त इत्यादि । पर्यगच्छत् प्रदक्षिणं चकार ॥ २५॥ अवलोक्येति । आलोक्य, सीतायाः श्रान्स्यश्रान्ती परीक्ष्यत्यर्थः । आयाचन्ती मनोरथान्टी .अ.का. प्रार्थयन्तीम् ॥२६॥ सीतामादायेति । भरताग्रजेति बहुव्रीहिः । अग्रतो गच्छेत्यनेन सीतायाः पुरतो गच्छेत्युक्तम् ॥ २७॥ अग्रतो गमनफलमाह- स.
नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिव्रतम् । कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् । इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्रनस्पतिम् ॥२५॥ अवलोक्य ततःसीतामायाचन्तीमनिन्दिताम् । दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ॥२६॥ सीतामादाय गच्छ त्वमग्रतो भरताग्रजापृष्ठतोऽहं गमिष्यामि सायुधो द्विपदांवर ॥२७॥ यद्यत्फलं प्रार्थयते पुष्पंवा जनकात्मजा। तत्तत् प्रदद्या वैदेह्या यत्रास्या रमते मनः ॥२८॥ गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा । मातङ्गयोमध्यगता शुभा नागवधूरिव ॥२९॥ एकैकं पादपं गुल्मलतांवा पुष्पशालिनीम् । अदृष्टपूर्वी पश्यन्ती रामं पप्रच्छ साऽवला ॥३०॥ रमणीयान बहुविधान् पादपान् कुसुमोत्कटान् । सीतावचन संरब्ध आनयामास लक्ष्मणः ॥ ३१ ॥ विचित्रवालुकजला हंससारसनादिताम् । रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ॥३२॥ क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ । बहून् मेध्यान मृगान हत्वा चेस्तुर्यमुनावने ॥ ३३ ॥ विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते । समं नदीवप्रमुपेत्य सम्मतं निवासमाजग्मु रदीनदर्शनाः ॥३४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥५५॥ यद्यत्फलमित्यादिश्लोकेन ॥२८॥२९॥ एकैकमिति । पप्रच्छ कैषां संज्ञेति पृष्टवतीत्यर्थः॥३०॥ रमणीयानिति । पादपानित्यनेन स्नबकविशिष्टाः पाद पावयवा उच्यन्ते । सीतावचनसंरब्धः सीतावचनेन त्वरितः॥३३॥ विचित्रवालुकजलामिति । नदी यमुनाम् । सुदूरं तत्तीरे गमनात्तदर्शनम् ॥३२॥ कोशमात्रमिति । मध्यान् शुचीन भक्ष्यानिति यावत् । चरतुः भक्षितवन्तौ । “चर गतिभक्षणयोः" ॥३३॥ विहृत्येति । पूगः समूहः । समम् ॥१८॥ पर्यगच्छत् प्रदक्षिणं चकार ॥२५॥२६॥ सीतामिति । भरताप्रति बहुव्रीहिः ॥ २७-२९॥ एकैकमिति । पमरछ एपो नाम किमिति पप्रच्छ ॥३०॥ रमणीयानिति । पादपान् । स्तबकविशिष्टपादपावयवान् । सीतावचनसंरब्धः सीतावचने त्वरा यस्य सःनया ॥ ३१ ॥ ३२॥ क्रोशेति। रतुः भक्षितवन्ती ॥३३॥ विहत्येति ।।
For Private And Personal Use Only