________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
स हीति । मुखमेकम् अद्वितीयम्, प्रधानभूत इत्यर्थः॥१२॥ प्रसङ्गात् केवलं कामं निन्दति-अर्थधर्माविति । दशरथो यथा, व्यसनीतिशेषः॥१३॥ मन्य इति । सम्प्राप्तेत्यत्रेतिकरणं बोध्यम् ॥१४॥अपीति । कैकेयी न सम्प्रबाधेत इत्यत्र काकुः। मत्कृते मत्सम्बन्धादित्यर्थः १५॥ मा स्मेति । इत एव
स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति । ताते च वयसातीते मयि चारण्यमास्थिते ॥ १२॥ अर्थधर्मो परि त्यज्य यः काममनुवर्तते । एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ १३॥ मन्ये दशरथान्ताय मम प्रवाजनाय च । कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥ १४॥ अपीदानीं न कैकेयी सौभाग्यमदमोहिता । कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते ॥१५॥ मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत् । अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण॥१६॥ अहमेको गमिष्यामि सीतया सह दण्डकान् । अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ॥ १७॥ क्षुद्रकर्मा हि कैकेयी द्वेष्यमन्याय्यमाचरेत् । परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥१८॥ नूनं जात्यन्तरे कस्मिन स्त्रियः पुत्रैर्वियोजिताः । जनन्या मम सौमित्रे तस्मादेतदुपस्थितम् ॥ १९ ॥ मया हि चिरपुष्टेन दुःखसंवार्द्धतेन च । विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् ॥२०॥ मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम् । सौमित्र योऽहमम्बाया दनि शोकमनन्तकम् ॥ २१ ॥ मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका । यस्यास्तच्छ्यते वाक्यं शुक पादमरेर्दश ॥ २२॥ समीपप्रदेशादेव ॥१६॥ नाथः रक्षकः ॥ १७॥क्षुद्रकर्मेति । “डाबुभाभ्याम्-" इतिडाप् । द्वेष्यं द्वेषाईम् । स्वकृतद्वेषोचितमित्यर्थः । अन्याय्यम् अवमानमित्यर्थः । द्वेषादिति च पाठः । परिदद्याः, परिदानं नाम रक्ष्यतया प्रदानम् ॥ १८॥ कस्मिंश्चित् जात्यन्तरे कस्मिंश्चित् जन्मनि । एतत् । पुत्रवियोजनम् ।। १९॥ मयेति । फलकाले पुत्रोत्पत्तिफलस्य मातृशुश्रूषण त्य काले ॥२०॥२१॥ अम्बया वर्द्धिततिर्यजन्तुकृतप्रीतिमात्रमपि न च्यावयेदपि न च्यावयेत् किमिति सम्बन्धः ॥७-११॥ स हीति । राज्यस्य मुखमेकं सर्वस्मिन् राज्ये एक एव राजा भविष्यतीत्यर्थः ॥ १२-१७ ॥ क्षुद्रकर्मा हीति । देष्यं द्वेषाम् । स्वकृतद्वेषोचितमित्यर्थः । द्वेषादिति वा पाठः। भरते मम मातरं परिदद्याः, समर्पयेत्यर्थः॥१८-२१॥ सर्वथा मम जननं मदम्बाया अप्रयोजनमित्याह
For Private And Personal Use Only