SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मानमिति । अवेक्ष्य बुद्धा। आर्त्तः अनुगमनेऽभ्यनुज्ञा न कृतेति दुःखितः ॥ १५ ॥ नातिक्रान्तमिति । तव सभ्रातृभार्यस्य वने प्राकृतवत् क्षुद्रस्येव योऽयं वासः तदिदं लोके केनचिदपि पुरुषेण नातिक्रान्तं नाङ्गीकृतम्, सर्वसम्मतोऽयं तव वने वास इत्यर्थः । किंपुनर्ममेति भावः ॥ १६ ॥ न मन्य इति ।। आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः । सुमन्त्रः पुरुषव्याघ्र मैक्ष्वाकमिदमब्रवीत् ॥ १५ ॥ नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् । तव सभ्रातृभार्यस्य वासः प्राकृतवदने ॥ १६ ॥ न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः । मार्द्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् ॥ १७ ॥ सह राघववैदेह्या भ्रात्रा चैव वने वसन् । त्वं गतिं प्राप्स्यसे वीर श्रीकांस्तु जयन्निव ॥ १८ ॥ वयं खलु हता राम ये त्वयाप्युपवञ्चिताः । कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ १९ ॥ इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा । दृष्ट्वा दूरगतं रामं दुःखार्त्तो रुरुदे चिरम् ॥२०॥ त्वां ब्रह्मचर्यस्वाध्यायमादवार्जवयुक्तं त्वां व्यसनमागतं चेत् ब्रह्मचर्ये अधः शयनादिलक्षणे अध्ययनकालकृते । स्वधीते स्वाध्यायाध्ययने । मार्दवे दयालुत्व इति यावत् । आर्जवे अकौटिल्ये च । फलोदयः फलसिद्धिर्नास्तीति मन्ये, यदि ब्रह्मचर्यादिकं फलदं स्यात् तत् त्वयि दृश्येत, न दृश्यते प्रत्युत वनवास एव दृष्टः । अतो न तत् फलदमिति मन्ये इतिभावः । खेदातिशयादेवमुक्तम् ॥ १७ ॥ सहेति । त्रीन् लोकान् जयन्निव विष्णुरिवेत्यर्थः । गम्यत इति गतिः । कीर्तिः तां प्राप्स्यसे, अतुलां कीर्ति प्राप्स्यत इत्यर्थः । सुमन्त्रः पुरवासिष्वात्मानमन्तर्भाव्य वदति ॥ १८ ॥ वयमिति । वयं त्वामनुगता वयं त्वया प्युपवञ्चिताः खलु रात्रौ निद्रासमये अविदितयमनेन उपवञ्चिता एव । अपिशब्दादभिषेकविघटनेन कैकेय्यापि वञ्चिता इति द्योत्यते । उपवञ्चिताः समीपे वञ्चिताः । वनं प्रापय्यमाना इव त्यक्ता इतिवार्थः । अतएव पापायाः कैकेय्या वशं दुःखभागिनः सन्तः एष्यामः, अतो वयं हता इत्यन्वयः॥ १९ ॥ २० ॥ पदच महावनं गमिष्यामि, अतस्त्वं निवर्तस्येत्येवमुवाचेति सम्बन्धः ॥ १४ ॥ आत्मानमिति । अभ्यनुज्ञातं प्रतिनिवृत्त्या इति शेषः ॥ १५ ॥ नातिक्रान्तमिति यदा सभ्रातृभार्यस्य तव स्वद्विधस्यापि प्राकृतवत् क्षुद्रस्येव येन दैवेन वने वासः कृतः तदा । इदं देवकृतम् । इह लोके केनचित्पुरुषेणापि । नातिक्रान्तं न लङ्कितम् । लङ्घितुमशक्यमित्यर्थः ॥ १६ ॥ न मन्य इति । त्वद्विश्लेषदुःखात् ब्रह्मचर्यादीनां फलं नास्तीत्युक्तम् । वस्तुतस्तु त्वं गतिमिति, हे राघव ! वने वसन त्रीन् लोकांस्तु जयन्निव पितृसत्यपालनेन जयन्नेव वशीकुर्वन्नेव त्वं गतिं मुक्तिं प्राप्स्यसे नात्र सन्देहः ॥ १७ ॥ १८ ॥ वयमिति । रात्रौ केचन निद्रासमये अविदित गमनेन, अहं तु बलान्निवर्तनेन, एवं सर्वे वयं वखिताः त्यक्ताः ॥ १९ ॥ इतीति । आत्मसमं भृत्यस्य स्वस्योचितमिति क्रियाविशेषणम् । आत्मसमं प्राणसममिति For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy