SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir बा.ग.भ. टी.अ.का म मन्यन्तां अनुमति कुर्वन्तु। इदं मे अनुकूलार्थ चत्कथं वान्यत्करवाणि ॥१५ पले प्रियं तत् क्रियतामित्यत्राह-यद्यपीति । एषा रामाभिषेकविषया प्रीतिर्यद्य प्यस्ति तथाप्यन्यद्धितमस्ति चेच्चिन्त्यताम् । ननु कस्त्वत्तोधिकदीत्यत्राह अन्येति ।मध्यस्थानां रागद्वेपरहितानां चिन्ताविचारः अन्या अन्यादृशी स्वमा चिन्तातो विलक्षणा । तदेव वैलक्षण्यमाइ विमर्दाभ्यधिकोदयेति । विमर्दैन पूर्वापरपक्षसङ्घर्षणेन हेतुना अभ्यधिकोदया अधिकार्थप्रादुर्भावा हि ॥ १६॥ यद्यप्यषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् । अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥१६॥ इति ब्रवन्तं मुदिताःप्रत्यनन्दन्नृपा नृपम् । वृष्टिमन्तं महामेघ लर्दन्त इव बहिणः॥ १७॥ स्निग्धोनुनादी सञ्जज्ञे तत्र हर्षसमीरितः। जनाघोद्घष्टसन्नादो विमानं कम्पयन्निव ।।1८॥ तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः । ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥१९॥ समेत्य मन्त्रयित्वा तु समतांगतबुद्धयः। ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥२०॥ इतीति । इति पूर्वोक्तप्रकारेण । अवन्तं नृपं दशरथम् । नृपाः परिषद्गता राजानः । वृष्टिमन्तं वर्ष महामेचं नर्दन्तः केकार्वन्तः बहिण इव मयूरा इव । मुदिताः सन्तः प्रत्यनन्दन् प्राशंसन् ।। १७॥ स्निग्ध इति । तत्र सभायाम् । स्निग्धः स्नेहाभिव्यञ्जकः। अनुनादी प्रतिध्वनिकारी। जनौषोदुष्टः जन ससमूहोत्पादितः सन्नादः समीचीनशब्दः । विमानं तदास्थानमण्डपविमानं कम्पयन्निव सञज्ञे, न केवलं राजान एव सर्वेऽपि जनाः तच्छ्रुत्वा सन्तुष्टा इत्यर्थः ॥ १८॥ तस्येत्यादि श्लोकद्रयमेकान्वयम् । ब्राह्मणाः वसिष्ठाद्याः जनमुख्याः राजानश्च पारनागरिकः जानपदश्च । समेत्य संयुज्य । मन्त्रयित्वा युक्तायुक्तं विचार्य । धर्मार्थविदुषः स्वस्य वाईके युवराजस्थापनं धर्मः प्रजानामर्थसाधनं चेति जानतः तस्य दशरथस्य । भावं वचनमूलतात्पर्यम् ।। सर्वशः सर्वप्रकारेण, देशकालेगिन्तादिभिः । आज्ञाय आ समन्तात ज्ञात्वा । समतां साम्यं गताः बुद्धयो येषां ते तथोक्ताः। ऐकमत्यं प्राप्ताः सन्तः। मन्यन्ताम् ममानुज्ञा प्रयच्छत । कथं वा करवाणि, भवतामनुमति विनत्यर्थः किं करवाणीनिवार्थः ॥१५॥ ननु भवधिकः को वा हिताहितविचारसमर्थस्तत्राहयद्यपीत्यादिना । यद्यपि एषा रामाभिषेकविषया चिन्ता मम प्रीतिः प्रिया, नथाप्यतोऽन्यद्भितमस्ति चेद्विचिन्त्यताम । तथाहि विमर्दैन विचारेण अभ्यधिकोदया अधिकफला मध्यस्थानां चिन्ता अन्याहशी स्वजनचिन्नाविलक्षणा ॥१६॥ इतीति । प्रत्यनन्दन प्रशंसापूर्वकमनीचक्रः ॥१७॥ निग्ध इति । जनौधोदष्ट सन्नादः सम्यहनादः यस्य विमानं गन्यस्थानम ॥ १८॥ १५ ॥ नम्येन्यादि । समतागतबुद्धयः समतागताः साम्यमेक्यं गताः बुद्धया येषां ॥ २० ॥२१॥ ॥१२॥ E For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy