SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वा.रा.भू. त्यनेन सम्बन्धः॥३-६॥ अहो इति । निश्चेतनः बुद्धिहीनः। प्रवत्स्यति प्रवासयति ॥६-८॥ नाग्रिहोत्राणीति । नाहूयन्त अग्नीनामन्तद्धीनारोतृणांव्यस।। |टी अ.का. ॥१४॥la नाच्चेति भावः । अन्तरधीयत निस्तेजस्कोऽभूदित्यर्थः॥ ९॥ रामानु०-नानीत्यादि । अग्निहोत्राणि नाहूयन्त अग्नीनामन्तर्धानादातूगां व्यसनातिशयाच नाहूयन्तेत्यर्थः । सूर्यश्चान्तरधीयत सूर्यास्तं गत इति वक्तव्ये अन्तरधीयतेत्यभिधानाद्रामवनगमनव्यसनकर्शितः सन् दिवसशेष सत्यन्तर्धान प्राप्तवानित्यवगम्यते । अत्र चकारोऽग्रीनामन्तर्धानं समुचिनोति॥९॥ स०४१ अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम् । धयं सत्यव्रतं राम वनवासे प्रवत्स्यति ॥६॥ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः । रुरुदुश्चैव दुःखातोः सस्वरं च विचुक्रुशुः॥७॥ स तमन्तःपुरे घोरमातशब्दं महीपतिः । पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत् सुदुःखितः ॥ ८॥ नाग्निहोत्राण्यहूयन्त नापचन गृहमेधिनः । अकुर्वन्नप्रजाः कार्य सूर्यश्चान्तरधीयत ॥९॥ व्यसृजन कवलान्नागागावो वत्सान्न पाययन् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥१०॥ त्रिशङ्कौंहिताङ्गश्च बृहस्पतिमातापि। दारुणाः सोममभ्येत्य ग्रहाःसर्वे व्यवस्थिताः ॥११ व्यसृजनिति । पाययन अपाययन् । आगमशासनस्यानित्यत्वादडभावः ॥१०॥ तनि-पुत्रमिति । जननी नात्यनन्दतेति ' उत्सवेषु च सर्वेषु पितेव परि तुष्पति' इत्याधुक्तरीत्या पुत्रजननमारस्य पितृवदङ्कमारोप्य लालयितरि वनं गच्छति किमनेनेति व्यज्यते। प्रथमजमिति गुणवान् ज्येष्ठो रामः किल प्रवाजितः । अस्य का गतिरिति । लब्ध्वेति षष्टिवर्षसहस्रपर्यन्तमपुत्रण राज्ञातिक्लेरोन संपादितोप्येवं निर्वासितः । व्रतोपवासादिनियमेन बहुकालालब्धो मत्पुत्रः कीदृशो भविष्यतीति ॥ १० ॥ विशङ्कुरिति । त्रिशङ्कः इक्ष्वाकुकुलकूटस्थः। लोहिताङ्गोऽङ्गारका बृहस्पतिबुधयोदारुणत्वं दारुणाङ्गारकसंयोगात् कूरस्थानगतत्वादा । विशङ्कोर्महत्वा पनीयानि प्रजाक्रोधकराणि ॥३-५ ॥ अहो इति । निश्चेतनः बुद्धिहीनः । प्रवत्स्यति प्रवासयति ॥६-८॥ नाग्निहोत्राणीति । होतॄणां व्यसनातिशयादित्यर्थः। सूर्य चान्तरधीयतेति रामव्यसनकर्शितस्सन दिवसशेषे सत्यपि अन्तर्धान प्राप्तवानिति गम्यते ॥९॥ व्यसृजन्निति । व्यसृजन त्यक्तवन्तः, नाग्निहोत्राण्यहूयन्ते त्यादिनैवमुक्तम्-रामस्य सर्वात्मनामात्मभूतत्वात्तस्य दुःखे सति सर्वस्यापि दुःखं भवति अत एवास्मिन रामायणे यद्यत्प्रतिपाद्यते तत्सर्व वास्तवमेवेत्यवगन्तव्यम् । न पाययन् नापाययन् ॥१०॥विशङ्कुरिति । लोहिताङ्ग अङ्गारका, बृहस्पतिबुधावपि । अन्ये ग्रहाः शनिशुक्रादयः । सोममभ्येत्य वक्रमत्या सोमं समाक्रम्य अत स-त्रिशङ्का त्रिषु द्वादशाष्टमजन्मस्थाने शङ्करिव शङ्कः शनैश्वरः । " द्वादशाष्टमजन्मस्याः शन्याशारका गुरुः । इत्यत्र प्रथमोदिष्टवादत्रापि तथा शनैर्महणम् । एतेन त्रिशङ्कोरप्रगत्वात्कथं सोमप्राप्ति रिति शङ्कानवकाशः ॥ ११॥ ॥१४॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy