SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir भिरक्षिताः। यथाशक्तीति विनयोक्तिः॥६॥ तहीदानीमपि तथैव रक्ष्यतामित्यवाह-इदमिति । कृत्स्त्रस्य लोकस्य जनस्य हितं चरता कुर्वता मया M इदं शरीरं भवतां प्रत्यक्षं हीति भावः । पाण्डरस्यातपत्रस्य श्वेतस्य छत्रस्य । छायायां जरितं सातजरं कृतम्, जरापर्यन्तमेकच्छत्रतया पराक्रमनिधि, भूत्वा मया नियमेन लोकहितमाचरितमित्यर्थः ॥ ७॥ तर्हि सम्प्रति किं कर्त्तव्यमित्यत्राह-प्राप्य वर्षसहस्राणीति । बहूनि वर्षसहस्राणि पष्टिवर्षसहस्र इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्। पाण्डरस्यातपत्रस्य च्छायायां जरितं मया ॥७॥ प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः । जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥८॥ राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः । परिश्रान्तोऽस्मि लोकस्य गुर्वी धर्मधुरं वहन् ॥९॥ सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते । सनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्॥१०॥अनुजातो हि मां सर्वेर्गुणैज्येष्ठो ममात्मजः। पुरन्दरसमो वीर्ये रामः परपुरञ्जयः॥१३ परिमितान्यायूंषि प्राप्य जीवतः क्रमेण जीर्णस्थास्य शरीरस्य । विश्रान्ति राज्यभाराद्विरतिम् । अभिरोचये इच्छामि। एतेन ययातिवद्विषयचापलेन नM राज्याद्विरम्यत इति दर्शितम् ॥ ८॥ इतःपरं राज्यवहनाशक्ती निमित्तमाह-राजेति । राजप्रभावैः शौर्यादिभिः जुष्टां सेवितुमहीम् । अजिते न्द्रियैः विषयपरैः । दुर्वहां तादृशप्रभावरहितैवोढुमशक्याम् । गुर्वी बहुसाधननिर्वाह्याम् । लोकस्य धर्मधुरं धर्मस्थापनरूपभारं वहन्त्रहं परिश्रान्तो ऽस्मि ॥९॥ विवक्षितमर्थ दर्शयति-स इति । सः एवं श्रान्तोऽहं प्रजाहिते प्रजारक्षणविषये । पुत्रं कृत्वा नियम्य । सन्निकृष्टान् अन्तरङ्गभूतान् । इमान् सर्वान् द्विजर्षभान् ब्राह्मणश्रेष्ठान् । अनुमान्य कृतानुमतिकान् कृत्वा। मानयतेय॑न्ताल्ल्यप् । विश्रमं श्रान्तिनिवृत्तिमिच्छामि ॥१०॥ कस्ते पुत्रो यौवराज्ये नियोज्योभिमतस्तत्राह-अनुजात इति । वीर्ये विषये पुरन्दरसमः इन्द्रतुल्यः। तौल्यमेवाह परेषां शत्रूणां पुराणि जयति । स्वाधीनीकरोतीति परपुरञ्जयः । असंज्ञायामपि जे खजार्षः । रामः रामनामकः मम ज्येष्ठ आत्मजः । सवैगुणैः शौर्यादिभिःमामनुजातः "अनुर्लक्षणे"|| अनुगच्छता अनुसरना । नित्यमनिद्रेण सदा जागमकेण । यथाशक्ति-सामर्थ्यानुरूपेण ॥ ६॥ इदमिति । लोकस्य हितं श्रेयः चरता कुर्वता आतपत्रस्य छायायां | जरितं जरान्वितम, अनेन सर्वकालपर्यटन व्यज्यते, न तु विषयासक्त्यति भावः । एवं प्रयासेन राज्यमेकच्छचमभूदिति तात्पर्यम् ॥ ७॥ प्राप्येति । वर्षसह स्राणि षष्टिवर्षसहस्राणि प्राप्य वहन्यायूंषि वत्सरशतमपानेकपुरूषायूंषि ॥ ८॥राजेति । राजप्रभाव जुष्टौ राजतेजसा पालिताम् ॥ ९ ॥ सोऽहमिति । प्रजाहिते. पुत्रं कृत्वा, नियुज्यत्यर्थः । अनुमान्य अनुमति प्रापय्य । अनुज्ञाप्येति पाठे-अनुज्ञा कारयित्वेर्थः ॥ १० ॥ अनुजात इति । अनुजात:-अनुमृत्य जातः ॥ ११॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy