________________
Shri Maa Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
स्वर्णमयेः । अङ्गदैः कूपरीपरिधार्यः बाहुभूपणेः । सहमसूत्रैमणिभिः हेमसूत्रप्रोतर्वदूर्यपद्मरागमुक्तादिमणिभिः। "रत्नं मणियोरइमजातो मुक्तादिके| |ऽपि च " इत्यमरः । केयूरैः भुजशिरोव्यापिफणाकारशिखरयुक्तबाहुभूषणैः। अथवा अङ्गदकेयूरयोः स्थूलत्वसूक्ष्मत्वाभ्यां भेदः। वलयैः कटकेः ।।
हारं च हेममुत्रं च भार्याय सौम्य हारय । रशनां चाधुना सीता दातुमिच्छति ते सखे ॥७॥ अङ्गदानि विचित्राणि केयूराणि शुभानि च । प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम् ॥ ८॥ पर्यमग्र्यास्तरणं नानारत्नविभूषि तम् । तमपीच्छति वैदही प्रतिष्ठापयितुं त्वयि ॥९॥ नागः शत्रुञ्जयो नाम मातुलोऽयं ददौ मम । तं ते गजसहस्रेण ददामि द्विजपुङ्गव ॥१०॥ इत्युक्तः स हि रामेण सुयज्ञःप्रतिगृह्य तत् । रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः ॥ ११॥ अथ भ्रातरमव्ययं प्रियं रामः प्रियंवदः। सौमित्रि तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ १२ ॥ अगस्त्यं कौशिकश्चैव तावुभौ ब्राह्मणोत्तमौ । अर्चयाय सौमित्र रत्नैः सस्यमिवाम्बुभिः ॥ १३॥ तर्पयस्व महाबाहो
गोसहस्रैश्च मानद । सुवर्णे रजतैश्चैव मणिभिश्च महाधनैः॥ १४॥ "कटकं वलयोऽस्रियाम्" इत्यमरः । रत्नैः भूषणप्रकरणात भूपणश्रेष्टेरित्यर्थः । "रत्नं स्वजातिश्रेष्ठेपि" इत्यमरः ॥ ५॥६॥ हारामिति । हेमसूत्र हेममयं कण्ठसूत्रम् । रशनांच ते भायर्याय सीता दातुमिच्छति । तत्सर्वं हारय दापयेत्यर्थः ॥ ७॥ अङ्गदानीति । भार्यायै भार्याधारणार्थम् । तुभ्यं । प्रतिग्रही। । प्रयच्छति । गच्छतीत्यत्र नुमभाव आपः॥८॥ पर्यमिति । त्वयि प्रतिष्ठापयितुं तुभ्यं दातुमित्यर्थः ॥९॥'नाग इति । मातुलो ददा विति दशरथीयशत्रुञ्जयव्यावृत्तिः॥ १०॥ इतीति । प्रतिगृह्येत्यनेन न्यासभूतत्वं व्यावर्त्यते ॥११॥ अथेति । त्रिदिशेश्वरम् इन्द्रम् ॥ १२ ॥ अगस्त्य मिति । अगस्त्यम् अगस्त्यपुत्रम् । कौशिकं विश्वामित्रपुत्रम् । स्त्रैः श्रेष्टवस्तुभिः ॥ १३ ॥ रत्नैरर्चनं विवृणोति-तर्पयस्वेति ॥१४॥ सीतया सुयज्ञपत्न्ये दिव्याभरणदानाय सखीत्वात् प्रचोदित इत्यर्थः ॥६॥ हारमिति । हेमसूत्रम् उरोभूषविशेषमित्यर्थः ॥ ७॥८॥ पर्यमिति । त्वपि प्रति ठापयितुम् तुभ्यं दातुमित्यर्थः ॥ ९॥ नाग इति । शत्रुञ्जयो नाम प्रसिद्ध यं गज मातुलो मम ददौ तं गज ते ददामि ॥ १०-१६॥ वि०-निष्कसहसण निष्कसहबदक्षिणया (त ते निष्कसहमेग इति पाठः) ॥१०॥ सा-रामलक्ष्मणसीतामाभित्यत्र लक्ष्मणव्यवधानेन महष्याशिषाविलम्बफलफल योतयति ॥ ११ ॥
For Private And Personal Use Only