________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू.
दिव्यन्तरिक्ष भूमौ च यान्युत्पातानि तजं भयमित्यर्थः । तानि चोक्तानि ज्योति शास्त्रे-" स्वर्भानुकेतुनक्षत्रग्रहताराचन्द्रजम् । दिवि चोत्पद्यते टी.अ.का. यच्च तद्दिव्यमिति कीर्तितम् । वाय्वभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च । खपुरं चेन्द्रचापं च तद्विद्यादन्तरिक्षजम् । भूमावुत्पद्यते यच्च स्थावरं वाथ स. जङ्गमम् । तदैकदेशिकं भौममुत्पातं परिचक्षते ।।" इति । भयावहानि घोराणि, दिव्याधुत्पातानीति फलितार्थः । मेधावी सूक्ष्मदर्शी, राजा संचचक्षे ।
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः । लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ॥४३॥ आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च । प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवानपः ॥४४॥
नानानगरवास्तव्यान पृथग्जानपदानपि । समानिनाय मेदिन्याः प्रधानान पृथिवीपतीन् ॥ ४५॥ दृष्टवान् सचिवायोक्तवानिति वा, आत्मनः शरीरे जरां च संचचक्षे । ख्यानभाव आर्षः ॥ ४२ ॥ एवं रामाभिषेके हेतुद्वयमुक्तम्. सर्वलोकप्रियत्वं च । हेतुमाह-पूर्णचन्द्राननस्येति । अथ उत्पातदर्शनानन्तरम् । पूर्णचन्द्राननस्य तद्वत्सर्वसन्तापहरस्थ। महात्मनः महामतेः रामस्य । लोके विषये संमि
यत्वं कीदृशम् ? आत्मनः स्वस्य शोकापनुदं उत्पातादिभयनिवर्तकं सम्यक प्रियत्वं बुबुधे अनुसन्दधावित्यर्थः ॥ १३ ॥ एवमनुसन्धानप्रयोजनमाहkeआत्मन इति । आत्मनः प्रजानां च श्रेयसे हितार्थाय प्रियेण च प्रियाय च । चतुर्थ्यथें तृतीया। धर्मात्मा धर्मशीलः । धर्मेण प्राणिसंरक्षकः नृपः प्राप्त
कालेनोपलक्षितः सन् । भक्त्या प्रीत्या त्वरितवान् प्रातकालत्वं स्वस्य वृद्धत्वं रामयौवनं वसन्तकालो वा॥४४॥ नानति । नानानगरेषु वसन्तीति - नानागरखास्तव्याः तान् "वसेस्तव्यत्करि णिच" इति कतरि तव्यत्प्रत्ययः । पृथग्जानपदान् जनपदान्तरस्थान् । मेदिन्याः भुवः । प्रधानान् न केवलानवान्तरनृपतीनित्यर्थः । पृथक् समानिनायेति वा ॥४५॥ मादिः । भौमोत्पातः स्थावरजङ्गमविकारः, स्थावरविकारः भूकम्पशिलापातवृक्षरक्तस्रवणादिः, जङ्गमविकारः मनुष्यादिजातीयपशुपक्ष्याद्युत्पत्तिः, पतत्रिविधो I पात भयं संचचक्षे कथयामास। सचिवानामिति शेषः । जरादर्शनं च रामाभिषेककारणान्तरमिति मत्वोक्तम्, न तत्पातत्वेनेति द्रष्टव्यम्॥४२॥ पूर्णेति । आत्मनः || स्वस्य शोकापनुदं सुखावह लोके महात्मनो रामस्य संधियत्वं सर्वानन्दकरत्वम् । बुबंधे ज्ञातवान ॥४३॥ आत्मन इति । प्रियेण प्रीत्या हेतुना च भक्त्या श्रीरामपरिपा लिताः प्रजाः धन्या भवन्विति प्रजाविषयभन्या च आत्मनः प्रजानां च श्रेयसे नृपो दशरथः प्राप्तकाले प्राप्तावसरे, त्वरितवान । रामाभिषेकमिति शेषःथानाना
For Private And Personal Use Only