________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असुखं दुःखम् । अमर्पिता सोदुमशक्का । ज्यसनं रामविशेषभवं व्यसनम् । उपनिशाम्य आलोच्य ॥ ५५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे पीताम्बराख्याने जयोध्याकाण्डव्याख्याने विशः सर्गः ।।२०।। एवमुपकान्तस्य पितृवचनपरिपालनस्य स्थैर्यमस्मिन् सगै प्रतिपाद्यते
तथा तु विलपन्तीं तां कोसल्यां राममातरम् । उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ १॥ न रोचते ममा प्येतदाय यद्राघवो वनम् । त्यक्त्वा राज्यश्रियं गच्छेत स्त्रिया वाक्यवशं गतः॥२॥ विपरीतश्च वृद्धश्च विषयेश्च प्रधर्पितः। नृपः किमिव न ब्रूयाञ्चोधमानः समन्मथः ॥ ३॥ नास्यापराधं पश्यामि नापि दोषं तथाविधम् । येन निर्वास्यते राष्ट्रादनवासाय राघवः॥४॥ तथेति । तत्कालसदृशं कौसल्यादुःखकालोचितम् । एतेन वक्ष्यमाणलक्ष्मणवचनं केवलं कौसल्याशांकशान्त्यर्थम्, नतु सहृदयमिति गम्यते ॥१॥ Mन रोचत इति । ममापि मह्यमपि । स्त्रियाः कैकेय्याः ॥ २॥ ननु नाई केकेयीवचनात् गच्छामि, किंतु राजवचनादित्याशङ्कचाइ-विपरीत इति । विपरीतः विपरीतवयोधर्मा । तत्र हेतुः वृद्धत्वं विषयप्रर्षितत्वं च । विषयाः शब्दादयः। ननु परिशुद्ध प्रति शब्दादिविषयाः किंकुयुरित्यत्राइ समन्मथ इति । चोद्यमानः कैकेय्येतिशेषः । इवशब्दो वाक्यालङ्कारे ॥३॥ ननु रामदोषादेवास्तु विवासनम् तत्राह नास्येति । अपराधं राजद्रोहम् । दोषं महा। किवरीव पिललापेत्यर्थः ॥ ५५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां विंशस्सर्गः ॥२०॥ तथा त्विति ।।
तत्कालसदृशं रामषियोगहेतुकौसल्यादुःखप्रतीकारोचितम् ॥१॥न रोचत इति । गच्छेदिति यत तन्ममापि न रोचते ॥२॥ विपरीत इति । विपरीतः विपरीत थाचेतस्कः । समन्मथ: मनोभुवा धर्षितः। आकृष्टः चोद्यमानः, खियेति शेषः । किमिव न यात अयुक्तशतमपि ब्रूयादेव, अतो न श्रद्धेयमिति भावः ॥३॥ ननु विवासनस्य कथं राजदोषप्रयुक्तता रामदोषप्रयुक्ततैव कस्मान्न स्थादित्यत्राह नेति । अस्य रामस्य येन हेतुना राघवो निर्वास्यते तथाविधं निर्वासनयोग्यम् । अपराध राजद्रोहम दोषं । महापातकम् न पश्यामि ॥४॥
१ राघवः । अई हनिप्ये पित्तरं बुद्धं कामवशं गतम् । चिया बुक्तं च निर्लज धर्मायुक्तं न यथा । इस्पधिकः पाठः।
For Private And Personal Use Only