________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वचनात् वचनान्तरविरोधपरिहारादिकं बालकाण्ड एव कृतम् 'ऊनषोडशवर्षों मे' इत्यत्र ॥४५॥ तदिति । सहितुं सोढुं चिरं नोत्सहे। जीर्णापि सपत्नी दुर्वाक्यश्रवणदुःखेन जीर्णापि । विप्रकारम् अपकाररूपं दुःखमित्यन्वयः ॥ १६ ॥ अपश्यन्तीति । कृपणजीविका दीनजीवनम् । वर्तयिष्यामि करि ।
तदक्षयमहं दुःखं नोत्सहे सहितुं चिरम् । विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥४६ ॥ अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् । कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् ॥४७॥ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः। दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया ॥४८॥ स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते । प्रावृषीव महानद्याः स्टष्टं कूलं नवाम्भसा ॥ ४९॥ ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम । यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदती मृगीमिव ॥५०॥ स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्धवि नावदीर्यते।
अनेन दुःखेन च देहमर्पितंध्रुवं ह्यकाले मरणं न विद्यते ॥५१॥ ध्यामीत्यर्थः । “आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने" इत्यमरः ॥ १७ ॥ उपवासरिति । योगः देवताध्यानः । परिश्रमःवतैः। मोघं निष्फलं यथा भवति तथा । दुर्गतया भाग्यरहितयेतियावत् ॥ १८-१०॥स्थिरं हीति । अनेन दुःखेन अर्पितम् आहतम् मम हृदयं न भिद्यते इति यत् द्वादश, विवाहानन्तरं द्वादश, पक्षर्विशे वनप्रवेश इति विवेकः । कुत एवं संख्या निर्णय इति चेत्, रामस्य वनप्रवेशसमये पक्षविंशतिवर्षत्वात् । तथाहि-विश्वा । मित्रं प्रति दशरथेन ' उनषोडशवर्षों मे रामो राजीवलोचनः' इत्युक्तस्य ऊनषोडशवर्षत्वस्य द्वादशवर्षे पर्यवसानात् । कुतः "बालो द्वादशवर्षोयमकृतास्त्रश्च राघवः" इति तदनुरूपेण रावणं प्रति मारीचेनोक्तत्वात् । पाणिग्रहणसमये रामो द्वादशवार्षिक:, सीतयापि रावणसंन्यासिनं प्रति "उषित्वा द्वादश समा र इक्ष्वाकूणां निवेशने" इत्युक्तत्वात "तब त्रयोदशे वर्षे राजामन्त्रयत प्रभुः" इति तयैवोक्तत्वाञ्च वनवासारम्भमभिप्रेत्य " मम भर्ता महातेजा वयसा पश्च विंशकः" इत्युक्तत्वाच रामस्य वनप्रवेशः पञ्चविंश इति सिद्धम् ॥ ४५ ॥ तदक्षयमिति । एवं जीर्णापि सापत्न्यकथायोग्यवयोवलक्षयं प्राप्तापि । अक्षयं निरवधि कम दवं सपत्नीनां विप्रकारं निराकरणं च सहित सोहम् चिरं नोत्सहे ॥४६॥ अपश्यन्तीति । कृपणजीविकां कुपणजीवनम ॥ ४७ ।। उपवासैरिति । दाखं यथा तथा मोघं व्यर्थ संवर्द्धितोसि, यदि विप्रवत्स्यसीति शेषः । दुर्गतया भाग्यशून्यया ॥ ४८ ॥ स्थिरं त्विति । यद्यस्मात न दीर्यते त्वदिप्रयोगश्रवणेपीति शेषः ४९॥ ५० ॥ स्थिरं हीति । यस्मात्कारणात् मम हृदयं देहं च अनेन दुःखेन अर्पितं व्याप्तमपि न भिद्यते न द्विधा भवति नावदीर्यते न शकलीभवति तस्मात्
For Private And Personal Use Only