SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदिति । मरणोपममिति लोकदृष्ट्या ॥१॥ एवमिति । इतः अस्मान्नगरात् ॥२॥ इदं त्विति । यद्यप्येतेन कारुण्येन समाप्लुत इत्यनभिनन्दने हेतुरुक्तः ।। तथापि मत्स्वभावं जानन् किमर्थं नाभिनन्दतीत्याहेति बोध्यम् । यथापुरं यथापूर्वम् ॥ ३॥ मन्युरिति । मन्युः दैन्यम् । “मन्युर्देन्ये ऋतौ कुधि" इत्यमरः । । तदप्रियममित्रघ्नो वचनं मरणोपमम् । श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ १ ॥ एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः । जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २ ॥ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः । नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दमः ॥ ३ ॥ मन्युर्न च तया कार्यो देवि ब्रूमि तवाग्रतः । यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ ४ ॥ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च । नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ ५ ॥ अलीकं मानसं त्वेकं हृदयं दहतीव मे । स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥ ६ ॥ अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च । हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ ७ ॥ मित्रवीमि ॥४॥ हितेनेति । हितेन हितपरेण । गुरुणेत्यनेन रामस्य तस्मान्मन्त्रविशेषस्वीकारोऽस्तीति गम्यते । कृतज्ञेन स्वकृतवरप्रदानाभिज्ञेन ॥५॥ अलीकमिति । अलीकम् अप्रियम् । मानसं मनसि वर्त्तमानम् ॥ ६ ॥ तवाप्रीतिर्भविष्यतीति नोक्तवानित्याशङ्कयाह- अहं दीति । सीतां धनुर्भङ्गकाल इति तदुद्भियमिति । मरणोपमं लोकदृष्टचा ॥ १ ॥ एवमस्त्विति । एवमस्तु भरताभिषेकोऽस्तु, अहं गमिष्यामि ॥ २ ॥ ३ ॥ मन्युरिति । भूमि ब्रवीमि ॥ ४ ॥ हितेनेति । कृतज्ञेन स्वकृतवरमदानाभिज्ञेन । विस्रब्धः निर्विशङ्कः ॥ ५ ॥ अलीकमिति । राजा मां स्वयमेव भरतस्याभिषेचनं नाहेति यत् इदमेकम् अलीकं दुःखम् मानसं मनसि वर्तमानं सत् मे हृदयं दद्दतीवेति सम्बन्धः ॥ ६ ॥ कथं सङ्कोचेन विनायमर्थो राज्ञा वकुं शक्यत इत्यत्राह अहं हीति । अप्रचोदित इति भरत सत्य०-अमित्रघ्नइत्यनेन स्वस्य मध्यायातान्तराय निवारकत्वेपि स्वसङ्कल्पानुसारकैकवचनमिति मानयामास मातरमिति सूचयति ॥ १ ॥ दुर्द्धर्षः | आर्षः खल् । अतो " माषायां शासियुधिशिषि- " इत्यादिना वार्तिकेन ||३|| राजा भरतस्याभिषेचनं मां प्रति स्वयं नाहेत्येतत् मानसं मनस्लम्बन्धि यदलीकमप्रियं तन्मे हृदयं मनो दहत्येवेत्यन्वयः । यद्वा हे वमे अबमे । यद्यपि “ अवयावमाधमावरे फाः कुत्सिते" दति धातोरवतेरमप्रत्ययेऽवम इति भवति । तथाप्यपूर्वकान्माधातोरौणादिके प्रत्यये अपगतावगतिकत्वेन प्रयोजकेन प्रयोज्यं नीचत्वं लक्ष्यत इति नानुपपत्तिः । "वष्टिमागुरिरलोपम्" इति स्मरणात् । नीचे कैकेवि राजा स्वयं यस्मादेतन्नाह तस्मात्तव मानसं मनसि विद्यमानं जनानामली कम प्रिययं भरतस्याभिषेचनं खदृदयं दहति र विस्मये । आश्वर्यमित्यर्थः ॥ ६॥ इष्टानित्येतद्यथायोग्यं विपरिणतं सन् सीतामित्यादिनान्वेति For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy