SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥६६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | संहितम् अभिषेचनसम्बन्धि मदर्थं किञ्चिन्मन्त्रयेते विचारयतः || १५ || महिष्या सहेत्युक्तत्योन्नेयमर्थं दर्शयति- लक्षयित्वेति । सुदक्षिणा सुकुशला अत एव राज्ञोऽभिप्रायं लक्षयित्वा वृद्धत्वात् भरतागमनपर्यन्तं न विलम्बः कार्य इति राजाशयं ज्ञात्वा मत्प्रियकामा सती राजानं प्रति मदर्थे मदाभिषेकं सञ्चो दयति । एतदानुकूल्यं त्वत्सौभाग्यफलमित्याह मदिरेक्षण इति ॥ १६ ॥ सन्दिग्धोक्ति जनितां सीताशङ्कां वारयति सेति । प्रहृष्टा मयीतिशेषः । हित लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा । सञ्चोदयति राजानं मदर्थं मदिरेक्षणे ॥ १६ ॥ सा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी । जननी चार्थकामा मे केकयाधिपतेः सुता ॥ १७ ॥ दिष्ट्या खलु महाराजो महिष्या प्रियया सह । सुमन्त्रं प्राहिणोद्भूतमर्थकामकरं मम ॥ १८ ॥ यादृशी परिषत्तत्र तादृशो दूत आगतः । ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ २९ ॥ हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् । सह त्वं परिवारेण सुखमास्व रमस्व च ॥ २० ॥ पतिसम्मानिता सीता भर्त्तारमसितेक्षणा । आद्वारमनुवत्राज मङ्गलान्यभिदध्युषी ॥ २१ ॥ कामा, लोकस्येतिशेषः । महाराजं भर्तारम् अनुवर्तिनी मे अर्थकामा, भवतीति शेषः ॥ १७ ॥ १८ ॥ यादृशीति । तत्र अन्तःपुरे । यादृशी परिषत् परि सरवर्ती जनः, तादृशस्तत्तुल्यो दूतः ॥ १९ ॥ इन्तेति । इन्तेति हर्षे । परिवारेण परिचारिकासङ्गेन । रमस्व वृत्तकीर्त्तनेन रता भव ॥ २० ॥ अथ सीता रामस्य सौन्दर्यालंकृतिविशेषानालोक्य किंवा भविष्यतीति कलुषितहृदया तस्मै मङ्गलमाशासानानुव्रजति-पतिसम्मानितेति । पतिसम्मानिता अत्र महिष्या सहेत्युक्त्या उन्नेयार्थमुत्रयति-लक्षयित्वेत्यादिश्लोकद्वयमेकं वाक्यम् । केकयाधिपतेः सुता स्वस्य हिताय राजसौमुख्यादिप्रयोजनाय । कामम् अत्यन्तं राजानमनुवर्तत इति हितकामानुवर्तिनी जननी मे अर्थकामा मदर्थवृद्धयपेक्षिणी सा कैकेयी वृद्धेन मया अविलम्बेन रामाभिषेकः कार्य इति राज्ञो ऽभिप्रायम् । लक्षयित्वा आलोच्य सुदक्षिणा समर्थ अत एव राज्ञः प्रियकामा हृष्टा सती मदर्थं मदभिषेकं प्रति रञ्जयतीति राजा तं महाराजं चोदयतीति मन्य इत्यन्वयः ॥ १६ ॥ १७ ॥ कुत एवमित्यत आह-दिष्टयेति । मम अर्थकामं करोतीति तथा सुमन्त्रं प्राहिणोत ॥ १८ ॥ यादृशीति । तत्र अन्तःपुरे । यादृशी मदर्थैकप्रयोजना परिषत्, तादृशः मदर्थैकप्रयोजनः ॥ १९ ॥ हन्तेति । हन्तेति हर्षे । परिवारेण सखीसङ्गेन सह सुखम् अन्वतिष्ठ रमस्व ॥ २० ॥ पतीति सत्य० - प्रयोजनकामेति प्रयोक्तन्ये यदर्थकामेति पुनः पुनराह तेन मन्निवृत्तिकामेत्यर्थो रामस्य संमतः सत्य अप्रति पदमवसम्मत इति ज्ञायते ।। १७ ।। For Private And Personal Use Only ॥६६॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy